________________
धर्म.
| ॥२६॥
Jain Education
ज्ञातं तच्चेष्टितं राज्ञा, मन्त्रीशकृतसंज्ञया । लोकस्थितिं न जानन्ति, ह्येते वेदज्ञवाडवाः ॥ ८८ ॥ एषामाचरणं ज्ञात्वा विलोक्यं नष्टचर्यया । इत्युक्वा मन्त्रिणा तेन तत्पृष्ठे प्रहितो नरः ॥ ८९ ॥ यावदग्रे गता राजपुत्रास्तावत् खरः पुनः । राजद्वारे स्थितो दृष्टो, रङ्गेण परितः स्फुरन् ॥ ४९० ॥ अन्योऽन्यं ते च पृच्छन्ति, कोऽयं पञ्चमबान्धवः । खरं शास्त्रप्रमाणेन, भ्रातृबुद्ध्या स्पृशन्ति ते ॥ ९१ ॥ यतः - आतुरे व्यसनप्राप्ते, दुर्भिक्षे शत्रुविग्रहे । राजद्वारे स्मशाने च यस्तिष्ठति स बान्धवः ॥ ९२ ॥ इति मत्वा खरं लात्वा, पुनरप्यग्रतोऽगमन् । वेगाद्गच्छन्तमुष्ट्रं वाऽपश्यन्नेकं कुमारकाः ॥ ९३ ॥ पुनः पृच्छन्ति भो भ्रातः ! कोऽयं गच्छति वेगतः । परः प्राह न जानीथ, धर्म्मस्त्वरितगाम्ययम् ॥ ९४ ॥ चलं चित्तं चलं वित्तं, चलं यौवनमावयोः । प्रसारय करं पात्र ( त्रे), धर्म्मस्य त्वरिता गतिः ॥ ९५ ॥ स्थैर्यं सर्वेषु कार्येषु शंसन्ति नयपण्डिताः । बह्वन्तराययुक्तस्य, धर्मस्य त्वरिता गतिः ॥ ९६ ॥ सर्वे वदन्ति हुं ज्ञातं, धर्मस्त्वरितगाम्ययम् । इत्युक्त्वा कन्धरायां ते, गृहीत्वा चोष्ट्रमूचिरे ॥ ९७ ॥ धर्म त्वं भूरिभाग्येन, प्राप्त इष्टञ्च दयिते । उक्तैवमौष्ट्रग्रीवायां, रासभं ते बबन्धिरे ॥ ९८ ॥
For Private & Personal Use Only
महा.
॥२६॥
Jainelibrary.org