SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ महा. यथैकमार्गवयैव, स बभूव तुरङ्गमः । तथाऽसौ धर्मदत्तोऽपि, शास्त्रैकरसिकोऽभवत् ॥ ६७॥ Ran|अन्येयुः श्रेष्ठिनी प्राह, भर्तारं श्रीपतिं प्रति। सुतोऽयं सर्वशास्त्रज्ञो, दृश्यते मूर्खवद्धृशम् ॥६८॥ काव्यम्-काव्यङ्करोतु परिजल्पतु संस्कृतं वा, सर्वाः कलाः समधिगच्छतु वाच्यमानाः। लोकस्थिति यदि न वेत्ति यथानुरूपां, सर्वस्य मूर्खनिकरस्य स चक्रवर्ती ॥ ६९। लोकमार्ग नरो यावन्नैव जानाति कञ्चन । शृङ्गपुच्छपरिभ्रष्टः, स ध्रुवं पशुरेव हि ॥ ४७० ॥ यथा वेदचतुर्वेत्ताप्यन्यशास्त्रश्रमं विना । विप्रः पशुसमस्तद्वद् , व्यवहारं विना नरः ॥ ७१ ॥ श्लोकः-अपठाः पण्डिताः केचित्, केचित्पठितपण्डिताः।अपठाः मूर्खकाः केचित्, केचित्पठितमूर्खकाः७२|| नात्यन्तं सरलैर्भाव्यं, गत्वा पश्य वनस्पतीः । सरलास्तत्र च्छिद्यन्ते, कुब्जास्तिष्ठन्ति पादपाः ॥७३॥ नातिमौग्ध्यं न काठिन्यं, नात्युच्चं नातिनीचकम् । एकान्तं किन्तु नो रम्यं, सर्व समतया शुभम् ॥७४॥ ॥२५॥ विद्याभिरनवद्याभिरपि कार्य न सिध्यति । व्यवहारज्ञता नो चेञ्चत्वारोऽत्र निदर्शनम् ॥ ७५ ॥ यथा चन्द्रपुरे पूर्व, बभूव चन्द्रजिन्नृपः । राज्ञी चन्द्रानना तस्य, मन्त्रीशो बुद्धिसागरः ॥ ७६ ॥ Jan Education a l For Private Personal use only Piainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy