SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ क ॥२४॥ जैनप्रासाद एकोऽस्ति, सरोमार्गे च तत्र सः । तिस्रः प्रदक्षिणा दत्वा, जिनं नत्वाऽग्रतोऽगमत् ॥ ४८ ॥ अभ्वं सरसि पायित्वा, वलित्वा तज्जिनालये । पुनः प्रदक्षिणां दत्वा जिनं नत्वाऽगमद् गृहे ॥ ४९ ॥ जलपानक्षणे नित्यमेवं कुर्वत्युपासके । सुरालयं सरश्चैव स जानाति तुरङ्गमः ॥ ४५० ॥ अन्यमार्गे न यात्येव, प्रेरितोऽपि दयोत्तमः । राज्ञा तस्य प्रभावेन, जिता अन्ये नृपा घनाः ॥ ५१ ॥ सप्रभावो हयो ज्ञातस्ततः केनापि वैरिणा । प्रेषितः कपटी कोऽपि, हयापहारहेतवे ॥ ५२ ॥ स दम्भश्रावकीभूय गतोऽश्वस्थितमन्दिरे । साधर्मिकतया तस्य, श्राद्धेनावर्जना कृता ॥ ५३ ॥ तेन मायाविना वार्ता, कृता पुण्यस्य भूरिशः । श्राद्धेन भद्रकत्वात्तु, तच्चित्तं नोपलक्षितम् ॥ ५४ ॥ यतः - विद्यादम्भः क्षणस्थायी, दानदम्भो दिनत्रयम् । रसदम्भस्तु षण्मासान्, धर्मदम्भस्तु दुस्तरः॥५५॥ सज्जनेनापि किन्तेन, यः शङ्ख-समलक्षणः ? । घवलो बहिरत्यन्तमन्तस्तु कुटिल स्थितिः ॥ ५६ ॥ काव्यं - कोऽर्थान्प्राप्य न गर्वितो ? विषयिणः कस्यापदोऽस्तङ्गताः । स्त्रीभिः कस्य न खण्डितं भुवि मनः १ को नाम राज्ञां प्रियः? | Jain Education onal For Private & Personal Use Only महा. ॥२४॥ jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy