________________
जलबिन्दुनिपातेन, क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां, धर्मस्य च धनस्य च ॥ १९॥ पाण्डित्ये मणिते शिल्पे, तथा सर्वकलासु च । धर्मार्थकाममोक्षेषु, पुरुषः कुशलो भवेत् ॥ ४२० ॥ पण्डितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलाः । तस्मान्मूर्खसहस्रेण, प्राज्ञः एको न लभ्यते ॥ २१ ॥ वरं पर्वतदुर्गेषु, भ्रान्तं वनचरैः सह । मा मूर्खजनसंपर्कः, सुरेन्द्रभवनेष्वपि ॥ ८८ ॥ मूर्खस्तु परिहर्तव्यः, प्रत्यक्षो द्विपदः पशुः। विध्यते वाक्यशल्येन, अदृष्टः कण्टको यथा ॥२२॥ मूर्खशिष्योपदेशेन, दुष्टस्त्रीभरणेन च । द्विषतां संप्रयोगेन, पण्डितोऽप्यवसीदति ॥ २३ ॥ मूर्खाणां पण्डिता द्वेष्या, अधनानां महाधनाः । पण्याङ्गनाः कुलस्त्रीणां, सुभगानाञ्च दुर्भगाः ॥ २४ ॥ धनधान्यप्रयोगेषु, विद्यासंग्रहणेषु च । आहारे व्यवहारे च, सोद्यमश्च सदा भवेत् ॥ २५ ॥ यतः-अलसस्य कुतो विद्या,?अविद्यस्य कुतोधनम् ?|अधनस्य कुतो मित्रममित्रस्य कुतो बलम्?॥२६॥ अबलस्य कुतो मानो, ह्य मानस्य कुतो यशः । यशोरहितदेहस्य; जीवितान्मरणं वरम् ॥ २७ ॥ अत एव वरा विद्या, सेविता सर्वकार्यकृत् । यस्याः प्रसादतो विश्वे, गुरुशुक्रसमो भवेत् ॥ २८ ॥
Jan Education
For Private Personal use only
jainelibrary.org