SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ॥२२॥ Jain Education यतः - विना विद्या सुरूपोऽपि नार्थ्यते कुत्रचिन्नरः । यथा चातुलिपुष्पाणि, नार्थ्यन्ते रूपवन्त्यपि ॥ ८ ॥ किं कुलेन विशालेन, विद्याहीनस्य जन्मना । सविद्यः पूज्यते लोके, निर्विद्यः परिभूयते ॥ ९ ॥ अजातमृतमूर्खेभ्यो, मृताजातौ सुतौ वरौ । यतस्तौ स्वल्पदुःखाय, यावज्जीवं जडो दहेत् ॥ ४१० ॥ विद्यायशस्करी पुंसां, विद्या श्रेयस्करी मता । सम्यगाराधिता विद्या, देववत् कामदायिनी ॥ ११ ॥ विद्वत्त्वं च नृपत्वञ्च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान्सर्व्वत्र पूज्यते ॥ १२ ॥ अनभ्यासे विषं शास्त्रं, अजीर्णे भोजनं विषम् । दरिद्रस्य विषं गोष्ठी, वृद्धस्य तरुणी विषम् ॥ १३ ॥ गतेऽपि वयसि ग्राह्या, विद्या सर्वात्मना बुधैः । यदीह स्यान्न फलदा, सुलभा चान्यजन्मनि ॥ १४ ॥ देवताराधने दाने, विद्याभ्यासे सदौषधे । क्षमायां परमो यत्नः कर्त्तव्यो विजिगीषुणा ॥ १५ ॥ धनहीनो धनहीनस्तु न धनं कस्य निश्चलम् । विद्याहीनस्तु यः कश्चित्, सर्वहीनः स वस्तुषु ॥ १६ ॥ विद्या यद्यस्ति का चिन्ता, वराकोदरपूरणे। शुकोऽपि कूरमश्नाति चत्वरे राममुच्चरन् ॥ १७ ॥ यत्र विद्यगमो नास्ति, यत्र नास्ति धनागमः । यत्र आत्मसुखं नास्ति, न तत्र दिवसं वसेत् ॥ १८ ॥ ( १ ) आवल इति देशीयाभिधानम् For Private & Personal Use Only 000000 महा. ॥२२॥ jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy