SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ वन्ध्योऽयमिति लोकेऽत्र, मम माभूत्कदर्थना । इत्युक्ता श्रेष्ठिना देवी, वरं दत्वा तिरोदधे ॥ ९७ ॥ प्रत्यूषेस प्रियं प्राह, रजन्यामद्य सुन्दरि !। प्रोक्तं शासनदेव्या मे, तव पुत्रो भविष्यति ॥ ९८॥ श्रुत्वैवमवदत्कान्ता, स्वामिन् ! स्वप्ने मयापिच । पूर्णकुम्भः फलोपेतो, दृष्टो मन्दिरमध्यगः ॥ ९९ ॥ भविष्यति सुतो नूनं, एतत्स्वप्नानुभावतः । इति प्रमुदितौ तौ द्वौ, विचारं चक्रतुः मिथः ॥ ४०॥ तदिनात्स्वर्गतश्श्युत्वा, पुण्यात्मा कोऽपि निर्जरः। उत्पन्नः श्रीमतीकुक्षौ, जाताश्च शुभदोहदाः ॥१॥ नवमासेषु पूर्णेषु, सार्धाष्टदिवसेषु च । श्रेष्ठिनी सुषुवे सूनुं, मार्तण्डमिव पूर्वदिग् ॥२॥ तदा वर्धापितः श्रेष्ठी, स्वजनैरतिहर्षितैः । सोत्साह उत्सवं चक्रे, चक्रे चामारिघोषणम् ॥ ३॥ सकलं बलिकर्मादि, तदा चन्द्रार्कदर्शनम् । षष्ठीजागरणं चापि, सर्वमेतत्कृतं तथा ॥ ४ ॥ धर्मदत्तेति तन्नाम, कृतं धर्मो ददौ यतः । पित्रोर्मनोरथैः सार्धं, ववृधे स दिने दिने ॥५॥ कदोत्सङ्गे कदा स्कन्धे, हस्ताद्धस्तेषु सञ्चरन् । पोषितो लालितश्चापि, जातः षट्वार्षिकः सुतः ॥६॥ सञ्जाते सप्तमे वर्षे, स महोत्सवपूर्वकम् । पठितुं लेखशालायां, मुक्तः पित्रा महामतिः ॥७॥ in Education For Private Personal Use Only V ejainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy