SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ धर्म. ॥२१५॥ सूरिरुचे भ्रातृजाया, याऽभूत्पूर्वभवे तव । सरागा त्वयि सा जाता, परं न प्राप वाञ्छितम् ॥ ४९ ॥ मृता च स्मितवाक्येन, पत्यौ चात्यन्तरागिणी । रौद्रार्तध्यानयोगेन प्रथमे नरके गता ॥ ३५० ॥ आयुः सम्पूर्य सा तत्र भवं भ्रान्त्वाऽभवत् द्विजी । बालत्वे विधवा जाता, ततः साऽभूत्तपखिनी ॥ ५१॥ कृत्वा तपश्चिरं मृत्वा, कामाक्षाऽभून्नृपप्रिया । प्राग्भवस्नेहयोगेन, सा जाता त्वयि रागिणी ॥ ५२ ॥ विषयार्थं तयोक्तानि वचनानि बहून्यपि । भवेऽस्मिन्मुक्तिगामी त्वं तेन शीलं न खण्डितम् ॥ ५३ ॥ एवं पूर्वभवं श्रुत्वा प्राप्य जातिस्मृतिं पुनः । सूरिं नत्वा नृपश्चन्द्रोदयः स्वगृहमागतः ॥ ५४ ॥ अन्यदा भावयन् भावं, चित्ते राजा व्यचिन्तयत् । विमानमानमुत्तुङ्गं, कारयामि जिनालयम् ॥५५॥ यैर्नरैर्निजवित्तस्य, मानेन जिनमन्दिरम् | कारितं चोद्धृतस्तेन, निजात्मा भवसागरात् ॥ ५६ ॥ आकारिता घना राज्ञा, शिल्पिनः कुशलास्ततः । वास्तुविद्यासु विख्याता, विश्वकम्र्मोपमा गुणैः॥ ५७॥ मुहूर्त्तेऽथ शुभे शुद्धभूपीठे च सुदैवते । उन्नतं चोत्तमं पीठं, स्थापितं स्थिरलग्नके ॥ ५८ ॥ क्रोशार्द्धः पृथुलः क्रोशं, दीर्घः क्रोशसमुन्नतः । चतुर्द्धारो हेममयः, प्रासादस्तत्र निर्मितः ॥ ५९ ॥ Jain Education International For Private & Personal Use Only महा. ॥२१५॥ www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy