SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ महा. धर्म हयाः कस्य गजाः कस्य, कस्य देशोऽथवा पुरम् । वहीरूपमिदं सर्वमात्मीयो धर्म एव हि ॥३२॥ ॥२१४॥ इत्थं विचार्य विबुधैः, पुण्यमेवात्मनो हितम् । कर्त्तव्यं हि परं शेष, ज्ञेयं संसारबन्धनम् ॥ ३३ ॥ इत्युदित्वा जगौ राजा, मूलामात्यं प्रति स्फुटम् । अहो संसारवासात्मे, साम्प्रतं विरतं मनः ॥३४ तेन त्वं पृच्छयसे पूर्व, श्रीनिवासः श्रियो गृहम् । मत्पदे स्थाप्यते पुत्रो, राज्यभारधरः क्षमः ? ॥३५॥ तस्मिन्नेव क्षणे तत्र, वनपालो व्यजिज्ञपत् । स्वामिन् ! भुवनचन्द्राहोऽत्रागतः केवली गुरुः ॥ ३६ ॥ इत्थं श्रुत्वा सहर्षोऽभूद्भपतिर्भूरिदानतः । तं सन्तोष्य ततश्चित्ते, चिन्तयामास भावतः॥ ३७॥ अहो दुग्धे सिताक्षोदो, घेवरे घृतमोचनम् । इष्टं वैद्योपदिष्टञ्च, क्षुधिते भक्ष्यमागतम् ॥ ३८॥ अग्रे मे विरतं चित्तं, जातो गुर्वागमः पुनः । प्रस्तावे वाञ्छितो वृक्षः, पुष्पितः फलितः पुनः॥ ३९ ॥ एवं विचार्य भूपोऽसौ, गुरुवन्दनहेतवे । परिवारयुतोऽचालीत्, सम्प्राप्तः सूरिसन्निधौ ॥ ३४०॥ तिस्रः प्रदक्षिणा दत्त्वा, प्रणम्य विधिना गुरुम् । उपविश्य यथास्थानं, शुश्रावेति स देशनाम् ॥ ११ ॥ सुमाणुसत्तं सुकुलं सुरूवं, सोहग्गमारुग्गमतुच्छमाऊ । ॥२१४॥ in Educh an in For Private & Personal Use Only Sinelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy