________________
संसारनाटके जीवा, उत्तमाधममध्यमाः। नटवत् कर्मसंयोगान्नानारूपैर्भवन्त्यहो ॥ २६ ॥ कषायैर्विषयोंगैः, प्रमादैरङ्गिभिः सदा । रौद्रा नियमाऽज्ञत्वैश्चात्र कर्म प्रबध्यते ॥ २७ ॥
क्षितितलशयनं वा प्राप्तभैक्ष्याशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा। महति फलविशेषे नित्यमभ्युद्यतानां, न तु मनसि शरीरे खेदमुत्पादयन्ति ॥ २८ ॥
सौधोत्सङ्गे श्मशाने स्तुतिशयनविधौ कर्दमे कुङ्कुमे वा, पल्यङ्के कण्टकाग्रे दृषदि शशिमणौ चर्मचीनांशुके वा। शीर्णाङ्गे दिव्यनार्यामसमशमवशाद् यस्य चित्तं विकल्पै
र्नालीढं सोऽयमेकः कलयति कुशलः साम्यलीलाविलासम् ॥ २९ ॥ स्वगुणं परदोषञ्च, वक्तुं जल्पयितुं परम् । अर्थिनञ्च निराकर्तुं, सतां जिह्वा जडायते ॥ ३३०॥
आचारहीनं न पुनन्ति वेदा, यद्यप्यधीताः सह षड्भिरङ्गैः ।। एकाक्षरज्ञो हि विधानयुक्तः, परं पदं याति विधूतपापः ॥ ३१॥
Jain Education in
For Private & Personal Use Only
ainerary.org