________________
-
॥२१॥
दुष्कर्मभीरवो यत्र, जना आचारसुन्दराः। अनाचारविमुक्ता हि, यथा राजा तथा प्रजाः॥१५॥ यस्य पादयुगं भक्त्या, सेवते नरखेचराः। गायन्ति स्म गुणग्रामं, किन्नरीकिन्नरादयः ॥ १६ ॥ दीनेभ्यो याचकेभ्यश्च, यो ददौ दानमीप्सितम्। पात्रेभ्यो दत्तवान् भक्त्या, धर्मकर्माणि चाकरोत्१७॥ अर्धचक्रीव सर्वद्धिः, कोशदेशपुरादिषु । त्रिखण्डाधिपतित्वं स, पालयामास पुण्यतः ॥ १८ ॥ कियत्काले गते सोऽथ, रात्री जागरितोऽन्यदा । दध्यौ याति वृथा जन्मारण्यजा मालती यथा ॥१९॥ न गृहीतं फलं किञ्चिन्न कृतं सुकृतं ततः । जातोऽयं नृभवः कूपच्छायावन्निष्फलो मम ॥ ३२०॥ इत्यादिभावनां कृत्वा, स्मृत्वा च परमेष्ठिनः । कृत्वा प्रभातकृत्यानि, सभायां संस्थितो नृपः ॥२१॥ सभामुख्यजनाः सर्वे, तदा तत्र समागताः । भूपं प्रणम्य सद्भक्त्या, यथास्थानमुपाविशन ॥ २२ ॥ नृपः सभ्यान्प्रति प्रोचे, भो भोः किं वित्थ वा नहि। संसार एष कीदृक्षः, किं स्थिरो वा किमस्थिरः? ॥२३॥ तेऽपि प्रोचुन जानीमः, स्वामिस्त्वं वेत्सि तद्वद । ततो नृपः पुनः प्राह, भो भोः शृणुत सज्जनाः! ॥२४॥ अस्थिराणि शरीराणि, विभवोऽप्यस्थिरः पुनः । जीवितं निश्चलं नैव, संसारो ह्ययमस्थिरः ॥ २५ ॥
॥२१३॥
JainEducation
For Private 3 Personal Use Only
w.jainelibrary.org