SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ॥२०८॥ मद्यमांसाद्यमासाद्य, निवृत्ता सा विसर्जिता । धृष्टो व्यलोकयत्सर्वं, स्तम्भस्यान्तरितो विभीः॥८॥ महा. जरत्या रूपमाधाय, सुप्ता सीकोत्तरी पुनः । शाकिन्या हि जनो जग्धो, विश्वास्य विश्वगोचरे ॥९॥ सचिन्तो धृष्टको दध्यौ, शाकिन्याः सङ्कटे पुनः । पतितो यामि यत्राहं, शाकिन्यास्तत्र सम्भवः २१० ध्यायतीत्युद्गते सूर्ये, गताः सर्वे तृणार्थिनः । धृष्टेन रात्रिवृत्तान्तो, मूलतः कथितोऽखिलः ॥ ११॥ ते प्रोचुन कदा मातुः, कुचिह्न किञ्चिदीक्षितम् । स प्रोचे याम्यहं यूयं, तिष्ठतु सुखलालसाः ॥ १२॥ ते विमृश्य वदन्ति स्म, रात्रिमेकां विलम्बय । दर्शयास्माकं वृत्तं तज्जरत्या विश्वघातकम् ॥ १३ ॥ आगता भारकान लात्वा, विधाय निखिलं च ते । समलोच्य ततः सर्वे, सुप्ताः कपटनिद्रया ॥१४॥ पूर्ववत् प्रकटं वृत्तं, वृद्धायाश्च विलोकितम् । तेऽन्योऽन्यं विमृशंति स्म, किं कर्त्तव्यमतः परम् ॥१५॥ धृष्टोऽथ कथयत्येवं, मार्यैषा निद्रयान्विता । द्वाभ्यां पादौ करौ द्वाभ्यां, धृतौ चैकेन मस्तकम् ॥१६॥ ॥२०॥ द्वाभ्यां तुलकुटै ढं, कुट्टिता खण्डशः कृता । व्यापाय जरती सर्वे, चलिताः पूर्वदिक्पथम् ॥१७॥ यान्त्यरण्ये नदीशिप्रातटे रम्यमहापुरम् । पश्यन्ति प्रौढिमप्राप्तं , त्रैलोक्यतिलकोपमम् ॥ १८ ॥ Jain Education a l For Private Personal Use Only Sw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy