________________
आम्रजंबीरनारङ्गपुन्नागकुटजद्रुमाः । तमालतालहिंतालकुलारामा मनोहराः ॥ १९ ॥ वापीकूपतटाकानि, मठः सत्रगृहाणि च । स्वर्गतुल्याः प्रदेशाश्च, दृश्यन्ते यत्र पत्तने । २२० ॥ शालः शोभति सौवर्णः, कपिशीर्षकरम्बितः। विस्फुरद्गोपुरद्वारध्वजतोरणबन्धुरः ॥ २१ ॥ विपणं विततं वस्तु, सकलं यत्र दृश्यते । विष्णूदरे यथा दृष्टं, मार्कण्डेन महर्षिणा ॥ २२ ॥ सौधश्रेणिर्विमानानां, पङ्क्तीवात्र विभाति च । यजिनालयमूर्द्धस्थैर्हेमकुम्भैः सुशोभितम् ॥ २३ ॥ दृष्टाऽथ सर्वतः शून्यं, राजमार्गे गता नराः । विलोक्याश्वपदानि द्राग्, राज्ञः सदनमन्वगुः ॥ २४ ॥ ततस्तत्र गतास्तेऽग्रे, वेश्म पश्यन्ति बन्धुरम् । सहस्रशिखरं शुभ्रं, कैलाशाचलसोदरम् ॥ २५ ॥ प्रविष्टाः पुरतो द्वारं, प्रवालदलमण्डितम् । सशङ्कपादपातास्ते, नीलभूमौ जलभ्रमात् ॥ २६ ॥ दृष्टा पुरो निविष्टा च, वृद्धिका छिन्ननासिका । स्थूलदेहप्रभापूरपूरिताऽशेषदिग्मुखा ॥ २७ ॥ नता दत्ते साऽऽशिषं भो !, सुभार्यासङ्गमोऽस्तु वः । रम्याभिः सप्तकन्याभिरर्थदानेन ते वृताः ॥२८॥ धृष्टोऽप्यग्रेश्वरीभूय, पप्रछ जरती रयात् । मातः! शून्यपुरस्था का, इमा कन्याः सुरीसमाः? ॥२९॥
Jain Education
For Private & Personel Use Only
jainelibrary.org