SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ॥२०७॥ Jain Education I भ्रातस्तद्याहि नाहन्ते, गेहमेष्यामि निश्चितम् । वने यास्यामि सन्त्यत्र, राक्षस्यो वनिताः किल ॥ ८६ ॥ ब्रुवन्नेवं व्रजत्येष, महारण्ये पपात सः । पुष्टान् तृणभराक्रान्तान्, षड् नरान् दृष्टवानथ ॥ ८७ ॥ निर्मानुषे वनेऽपश्यन् स तान् पप्रच्छ सादरम् । मणिमाणिक्य सौवर्णभूषणाः किं तृणावहाः ? ॥८८॥ ते वदन्त्यस्ति नाका, वृद्धा वार्द्धक्यबाधिता । भारकान् षट् तथा नीरं, नित्यमस्माभिरानयेत् ८९ यदृच्छया ददात्यन्नं, वसनं भूषणं परम् । जीर्णमञ्चकसुप्तापि, कल्पवल्लीव जङ्गमा ॥ १९० ॥ सूरः पुनरुवाचैषा, तृणाम्भोभिः करोति किम् ? । ते वदन्ति किमस्माकं, चर्चयाऽध्वग ! तेऽथवा ॥ ९१ ॥ सोऽचिन्तयद्दशा तावत् पश्यामि किल कौतुकम् । तैः सार्द्धमगमत्सूरो, धृत्वा शिरसि पूलकम् ॥९२॥ पृष्टस्तैरभिधानं किं ? धृष्टो, नामेति सोऽवदत् । सप्तमः सोदरोऽस्माकमित्युक्त्वा ते गृहे गताः ॥ ९३ ॥ | भारकान्न्यस्य गम्यन्ते (शीर्षाग्रे), जलैर्भृत्वा च कुण्डकम् । धृष्टेन सह सम्प्राप्ता, वृद्धापार्श्व प्रहर्षिताः ९४ वृद्धया भाषिता वत्साः ! सप्तमः कोऽत्र दुर्बलः ? । ते वदन्ति वने दृष्टः, प्रापितो मातुरन्तिके ॥ ९५ ॥ जरती सादरं धृष्टं, पृष्ठे न्यस्य करद्वयम् । ऊचे वत्स ! बरं दृष्टो, दुर्बलो दैवतोऽधुना ॥ ९६ ॥ For Private & Personal Use Only मद्दा. ॥२०७॥ jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy