SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 0000000000००००००००००००००००००००००० सूरः सुव्यक्तमाचष्टे, श्वेते! मारय कृष्णके । वाक्छलात् श्वेतया कृष्णे, मृतरूपे कृते क्षणात् ॥७५॥ तिस्रोऽपि यावता जाता, मृता युद्धान्मिथो स्यात् । सूरः प्रहर्षितो वाढं, गतो व्याधिनिरौषधः ॥७६॥ अकृत्वोप्रक्रियां सूरो, गतो भ्रातृगृहे भयात् । भ्राता न विद्यते गेहे, गतो ग्रामान्तरं स च ॥ ७७॥ भ्रातृजायां प्रणम्यैष, स्थितः सद्भक्तिकीलितः । देवरं दयिताहीनं, शुश्रूषति दिवानिशम् ॥ ७८ ॥ तच्छिरस्यन्यदा तैलं, क्षिपति स्वैरचेष्टिता । भ्रातृजाया तदायातो, हालिको रश्मिसंयुतः ॥ ७९ ॥ सोऽवदन्मात ! मिंढाख्यो, मृतो वामवृषोऽधुना । वापवेला प्रयात्येषा, बलीवर्दो विलोक्यते ॥ १८०॥ सहसा साऽक्षिपच्चूर्णं, मस्तके देवरस्य च । कुकुद्मान तत्क्षणाजज्ञे, यियासुरिव यः खिलम् ॥ ८१॥ तं गृहीत्वा गतः सीरी, सीरे तं वाहयेच्चिरम् । एकदा त्रुटिता नस्ता, जातः सूरखरूपभाक् ॥ ८२॥ भयाच्छीघ्र पलायिष्ट, पृष्ठौ धावति हालिकः । स गच्छन्मिलितो ज्येष्ठबान्धवस्यैकमार्गतः ॥ ८३ ॥ भ्रात्राऽथ भाषितः सूरः, क याति व्रणजर्जरः? । एहि बन्धो! समालिङ्ग्य,सुखं तिष्ठ ममौकसि॥४॥ सोऽवदत्तव भार्या हि, शाकिनी याहि याहि भोः । तयाऽहं वृषभं कृत्वा, कामं कर्थितोऽधुना ॥ ८५॥ Jain Education a l For Private Personel Use Only hjainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy