SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अमुक्तबालभावेऽस्मिन्, सञ्जज्ञे जनामृतिः। महदुःखनिदानं हि, बालानां जननीमृतिः ॥ ७६ ॥ यतः-शिशूनां जननीनाशो, भार्यानाशस्तु यौवने । वृद्धस्यात्मजनाशश्च, दुःखमेभ्यः परं नहि ॥७७॥ धनपालममुं बालं, धनो वीक्ष्य व्यचिन्तयत् । पूतरः कुञ्जरीकर्तुं, कथं शक्यः स्त्रियं विना ॥ ७ ॥ विमृश्यति धनः श्रेष्ठी, धनदाता धनश्रियम् । उपायंस्त प्रशस्ताङ्गो, गृहिणीं गृहभारिताम् ॥ ७९ ॥ | यतः-न गृहं गृहमित्याहुहिणी गृहमुच्यते । गृहन्तु गृहिणीहीनमरण्यसदृशं मतम् ॥ ३८॥ ततः सूनुमसूतैषा, विषयारम्भिकं फलम् । सपत्नीसंभवं पुत्रं, निजपुत्रमिवैक्षत ॥ ८१ ॥ पठितुं ज्ञानशालायामिमौ यातौ महामुदा। पयस्समारचं पुष्टे,(पुष्ट2) प्रगे सापाययत्तराम् ॥ ८२ ॥ तत्पुत्रो धनदेवस्तु, निश्शत पिबति प्रगे। पयःपानं विना पाठः, कथं शक्येत बालकैः? ॥ ८३॥ पयः समरिचं दृष्ट्वा, समाक्षिकविरेकया । धनपालः पपौ दुग्धं, विमातुः शङ्कया सदा ॥ ८४ ॥ विमातेयं कथं मे स्यात्, सर्वथा हितकारिणी । एवं दुश्चिन्तनादेष, क्षीयते स्म दिने दिने ॥ ८५॥ तस्यास्ताडनभीतोऽसौ, धनपालः पयोऽपिवत् । अभृछल्गुलवातोऽथ, जीवितव्यविघातकः ॥ ८६ ॥ Jain Educationale For Private Personal Use Only A ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy