________________
॥२०॥
पाश्चात्यनिशि सोऽन्येार्गतनिद्रो व्यचिन्तयत् । गता धर्मेण षण्मासाः, किं फलं मे भविष्यति? ॥६५॥ महा. जैने मते कृते किन्तु, फलसिद्धिर्न दृश्यते । किमेष निष्फलो धर्मः? इति ध्यायत्यसौ यदा ॥ ६६ ॥ प्रत्यक्षीभूय तं प्राह, तदा शासनदेवता । रे मूढ ! जितं फलकं, मा मुधा हारयाधुना ॥ ६७॥ यथाऽब्धौ भग्नपोतोऽपि, संप्राप्ते फलके सति । तटासन्नङ्गतः कश्चिद्वायुना तत्र नीयते ॥ ६॥ तथान्तरायकर्माब्धेर्यावत्त्वं पारमागतः । तावच्छङ्कनकुवातेन, पुनः पश्चात्प्रपात्यसे ॥ ६९ ॥ शकन्या रहितो धर्मः, कृतो भूरिफलप्रदः । संशयेन कृतं सर्व, जलरेखेव तद्यथा ॥ ३७०।। स्थले जलं जले रेखा, बुभुक्षितमुखे फलम् । शङ्कया सहितं पुण्यं, स्थिरत्वं नैव जायते ॥ ७१ ॥ गाहा-आरंभे नत्यि दया,महिलासङ्गेण नासए बंभं । सङ्काए सम्मत्तं, पवजा अत्थगहणेणं ॥७२॥ शङ्कया दृष्यते सम्यग्दर्शनं मुक्तिदायकम् । चित्रं लुप्ति(प्येत)मष्येव, स्वैरिण्येव महाकुलम् ॥ ७३॥॥२०॥ यथा निर्गमितं जन्म, धनपालेन शङ्कन्या । सम्यक्त्वं धर्मकार्यञ्च, तथा गच्छति शुन्यताम् ॥ ७४॥ तद्यथा-पुरे क्षितिप्रतिष्ठाख्ये, धनो नाम धनी वणिक्। धनश्री प्रेयसी तस्य, धनपालसुतस्तयोः॥७५॥
HIjainelibrary.org
Jain Education
For Private 8 Personal Use Only
Slonal