________________
Jain Education Inter
यतः - वाजिवारणलोहानां, काष्ठपाषाणवाससाम् । यथा नारीनृतोयानां, धर्माणाञ्च तथान्तरम् ॥५७॥ उक्तञ्च - साम्राज्यं सुकृतेन शीतरुचिना ज्योत्स्ना दिनं भानुना, जीमूतेन सुकालता सुगुरुणा धम्म नयेनेन्दिरा । सद्विद्या विनयेन मङ्गलमतिर्धर्मेण सान्ना सुखम्, नैरोग्यं सुधयाऽर्हता भगवता मुक्तिर्भवेद्भाविनाम् ॥ ५८ ॥
अतुलसुखनिधानं सर्वकल्याणबीजम्, जननजलधिपोतं भव्य सत्वैकचिह्नम् । दुरिततरुकुठारं पुण्यतीर्थप्रधानम् पिबत जितविपक्षं दर्शनाख्यं सुधाम्बु ॥ ५९ ॥ एवं मित्रस्य वचसा, मुक्त्वा मिथ्यात्वकारणम् । आराधयत्सदा श्रेष्ठी, जिनधर्म कृपामयम् ॥ ३६० ॥ जत्यति (स जल्पति) नमस्कारं, त्रिसन्ध्यं देवपूजनम् । आवश्यकं द्विसन्ध्यञ्च, करोति स्म सुभावतः ६९ ॥ वन्दते स्म गुरून्नित्यं दानन्दत्ते स्म साधवे । आराधयंश्च पर्वाणि, चकार विविधन्तपः ॥ ६२ ॥ अमारिं तीर्थयात्राञ्च, दीनोद्धारं तथाऽकरोत् । सप्तक्षेत्रेषु वित्तस्य, व्ययति स्म महामतिः ॥ ६३ ॥ इत्थञ्चाखण्डितं पुण्यं कुर्वतः प्रियया सह । श्रेष्ठिनः तस्य षण्मासा, व्यतिक्रान्ता महासुखम् ॥ ६४ ॥
For Private & Personal Use Only
nelibrary.org