________________
धर्म.
॥१९॥
Jain Education
धर्म्ममित्र ! ममाथ त्वं सत्यं वद करोमि किम् ? । तेनोक्तं मुञ्च मिथ्यात्वं सम्यक्त्वं धेहि सर्वथा ॥ ४६ ॥ या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्म्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ॥ ४७ ॥ अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्व, मिथ्यात्वन्तद्विपर्ययात् ॥ ४८ ॥ सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च, देवोऽर्हन्परमेश्वरः ॥ ४९ ॥ महाव्रतधरा धीरा, भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ ३५० ॥ दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥ ५१ ॥ धर्मस्य तस्य लिङ्गानि, धर्मक्षान्तिरहिंसता । नयो दानञ्च शीलञ्च, योगो वैराग्यमेव च ॥ ५२ ॥ ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्गकलङ्किताः । निग्रहानुग्रहपरास्ते देवा: स्युर्न मुक्तये ॥ ५३ ॥ | सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो नतु ॥ ५४ ॥ मिथ्यादृष्टिभिरानातो, हिंसाद्यैः कलुषीकृतः । स धर्म्म इति वित्तोऽपि भवभ्रमणकारणम् ॥ ५५ ॥ गोमेधनरमेधाश्वमेधाद्यध्वरकारिणाम् । याज्ञिकानां कुतो धर्म्मः प्राणिघातविधायिनाम् ? ॥ ५६ ॥
For Private & Personal Use Only
ational
महा.
॥१९॥
w.jainelibrary.org