SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ तदा शासनदेव्यापि, यतिवेषः समर्पितः। सहस्रपत्रपद्मञ्च, सौवर्णं रचितं सुरैः ॥३६॥ सद्देशना देवसभासमक्षं, तदा कृता केवलिना सुधाभा। । । एवं कथाचूडमुनिश्चिरं स, व्रतं प्रपाल्याथ जगाम मोक्षम् ॥ ३७॥ अतः श्रीपतिमित्र! त्वं, मिथ्यात्वं खलु वर्जय । पुण्यमर्जय तत् किन्तु, यथा स्यात्सुभगोत्तमः ॥३८॥ यात्यधोऽधो व्रजत्यूचं, नरः स्वैरेव कर्मभिः। खनितेव हि कूपस्य, प्रासादस्येव कारकः ॥ ३९ ॥ संसारे भ्रमणं नूनं, भवेन्मिथ्यात्वभावतः। दुष्कर्मोपार्जनेनाधोगति त्वञ्च गमिष्यसि ॥ ३४०॥ धनञ्च कथ्यते तेन, येन सङ्गतिरावयोः । सत्संगत्या सुधर्मत्वं, कुसङ्गात्पापमाचरेत् ॥४१॥ उक्तञ्च-संगवसेणं जायइ, धम्मं पावं च णत्थि सन्देहो । कुरुरायनेहबद्धो, गोहरणं कुणइ गंगे उ ४२ सितां प्रभावातिशयान्मजकोऽपि हि तारकः । जलविन्यस्तशैलेन्द्रैः, सैन्यं रामस्य तारितम् ॥ ४३ ॥ गुणज्ञत्वकृतज्ञत्वममात्सर्यमदीनता । दया सत्यं गुरोर्भक्तिरिति सत्पुरुषव्रतम् ॥ ४४॥ इत्थन्धर्मधनस्याथ, मित्रस्य वचनक्रमम् । श्रुत्वा श्रीपतिरत्यन्तं, मुदितः प्राह तं प्रति ॥ ४५ ॥ Jain Education in For Private Personel Use Only Marjainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy