SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ मा धर्म-राज्ञा पुरोहितः पश्चात्प्रेषितो मिथलापुरे । सुतायुक्तरय जामातुरामन्त्रणकृते पुनः ॥ २५ ॥ ॥१८॥ कथाचूडः ससैन्योऽथ, गतस्तत्र प्रियायुतः । समकेसरिणा तस्य, विवाहो विस्तरात्कृतः ॥ २६ ॥ गजाश्वहेमरत्नौघदेशदानेन भूभुजा । करमोचनवेलायां, जामाता बहुमानितः ॥ २७ ॥ मुत्कलाप्याखिलं लोकमनुज्ञाप्य नरेश्वरम्। स चचाल प्रियायुक्तः, स्वपुरं प्रति सत्वरम् ॥ २८ ॥ शिक्षा दत्तेति भूपेन, स्वसुताया विवेकतः। हे वत्स ! त्वं सुख दुःखे, भूयाः पत्यनुगामिनी ॥ २९ ॥ प्रकृष्टवदना नित्यं, स्थानमानविचक्षणा । भर्तुः प्रीतिकरा या तु, सा भार्या वितरा जरा ॥ ३३०॥ एवमुक्तकमां शिक्षा, दत्वाऽथ वलितो नृपः । वलितौ च दंपती तौ तु, प्रापतुर्मिथलापुरीम् ॥ ३१ ॥ देववत्स सदा भोगानन्वभूत् प्रियया सह । अतो भाव्यं भवत्येव, कथाचूडविवाहवत् ॥ ३२ ॥ । धम॑ श्रुत्वा गुरोः पार्श्वे, गृहीतं श्रावकवतम् । तच्छुई दम्भमुक्तेन, तेन भावेन पालितम् ॥ ३३ ॥ ततो द्वादशभेदेन, तपस्तेपे स दुष्करम् । सम्यक्त्वं निरतीचार,पालितं पापनाशनम् ॥ ३४ ॥ .. कुर्वतोऽस्य क्रियामुग्रां, गृहस्थस्यापि केवलम् । उत्पन्नं चागतः शक्रः, केवलोत्सवहेतवे ॥ ३५ ॥ ॥१८॥ Jain Educati o nal For Private & Personel Use Only HOMw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy