SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ तदा कन्याप्यसौ साध्वी, सोत्साहा शुभलोचना । गवाक्षस्था च केनाप्यपहृता पापकर्मणा ॥ १५ ॥ मुक्ता द्वीपान्तरे कुत्र, स्थिता सा तत्र दुःखिताः। इतश्चाहं निम्बपत्रैवेष्टितो जीवितोऽपि सन् ॥१६॥ अम्भोधिलोलकल्लोलैः, प्रेर्यमाणः सुकर्मतः। तं द्वीपं प्राप चाकृष्य, तया सजीकृतो द्रुतम् ॥१७॥ विवाहोऽप्यावयोलग्ने, कृतो विद्याधरैस्तदा । अत्रानीतोऽपि केनापि, मुक्तश्चाहं तवान्तिके ॥ १८ ॥ साश्चर्योऽध नृपो दध्यौ, अहो विलसितं विधेः । यन्नो मिलेनिमलत्येव, तत्क्षगादपि देवतः ॥ १९ ॥ उक्तञ्च-न सदलैर्न बलैनतु मन्त्रणैर्नच धनैः स्वजनैतु बन्धुभिः । सुरवरैर्न नरैरपि वार्यते, विधिरहो बलवानिति मे मतिः ॥ ३२० ॥ विद्वान्मूखों भटो भीरुः, श्वपाकः पाकशासनः । राजा रङ्कस्तथान्येऽपि, शासने को न दुर्विधेः ? ॥२१॥ ततो राजा निमित्तलं, सन्तोष्य बहुदानतः। क्षामयित्वापराधं स्वं, कुमारश्चातिहर्षितः ॥ २२ ॥ सौभाग्यमञ्जरीपुत्रीमुद्राह्य स कुमारराट्। राज्ञा स्वसैन्ययुक्तोऽथ, प्रेषितो मिथलापुरीम् ॥ २३ ॥ हर्षेण रणसारेण, प्रवेशो विस्तरात्कृतः । कुशाग्रपत्तने विप्रः, प्रेषितः क्षेमहेतवे ॥ २४ ॥ M For Private & Personal Use Only Jain Education inelibrary.org de H
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy