________________
गतं लग्नदिनं तावत्, हर्षितो नृपतिस्ततः। विवाहकारणं राजा, पुनः पृष्टो निमित्तवित् ॥ ४ ॥ ॥१७॥ विप्रोऽप्याह महाराज, विवाहो जात एतयोः। यदि चित्ते प्रतीतिर्न, तदा तं पृच्छ चेटकम् ॥६॥
स्मृतोऽयं चेटको राज्ञा, समागादचिताञ्जलिः । पुनः पृष्टं नरेन्द्रेण, किङ्कार्यं विहितं त्वया ? ॥६॥ चेटकः प्राह भो भूप, त्वदादेशः कृतो मया । सर्परूपेण दष्टोऽसौ, कुमारो वाहितोऽम्बुधौ ॥७॥ श्रुत्वैवं नृपतिः प्राह, नरं नैमित्तिकं प्रति । अरे अलीकं मा जल्पः, कूटभाषी सदासि किम् ? ॥८॥ लोकोक्तिरीदृशी सत्या, कृतैवं वदता त्वया । प्रत्यक्षं पतिता कूपे, वधूः पितृगृहेऽस्ति यत् ॥ ९॥ विप्रो जगाद दूरेऽस्ति, किमङ्गस्य करच्छटा । स्वामिन् ! यद्यस्ति ते शक्तिस्तस्य रूपं विलोकय ॥३१०॥ चेटकाय ददौ वाक्यमरे! तं द्रुतमानय । भूपादेशं च संप्राप्य, चेटको वेगतो गतः ॥ ११ ॥ तत्क्षणादेव शक्त्या स, आनीतस्तत्प्रियस्ततः । कुमारो भूभुजा पृष्टः, परिणीतो वधूयुतः॥१२॥ विस्मितो मानसे भूपस्तं पप्रच्छ नृपाङ्गजम् । युवयोः पाणिग्रहणं, सञ्जातं केन हेतुना ? ॥ १३ ॥ कुमारःस्माह हे राजन् !, शृणु त्वमावयोः कथाम् । यदाहमहिना दष्टः, प्रक्षिप्तश्च महोदधौ ॥१४॥
॥१७॥
Jain Education
a
l
For Private & Personal Use Only
P
ainelibrary.org