SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ - राज्ञोक्तं देव! सर्पस्त्वं, भूत्वा दश कुमारकम्। कूटो भवेद्यथा विप्रः, सत्यं च स्यान्मयोदितम् ॥१३॥ कालरात्रिसमं रूपं, कृत्वा सर्पविकारणम्। कथाचूडान्तिके गत्वा, पादे दष्टः सुरेण सः ॥ ९४ ॥ विषेण पारितो यावत्, जातश्चेतनवर्जितः। अर्धरात्रे महाहाहाकारश्वोच्छलितस्तदा ।। ९५ ॥ सेन्या आकुलिताः सर्वे, भ्रान्तचित्ता दिशोदिशम्। अभ्रमन भयभीताश्च, केपि गारुडिकं व्यधुः ॥ ९६ ॥ मणिमन्त्रौषधगदैर्गुणः कोऽपि बभूव न । चेटकोऽसौ नृपादेशात्पुरुषं चाकरोत्पुनः ॥ ९७ ॥ सदौषधिभृतं स्कन्धे, घटी न्यस्य सचेतनः । आह गारुडिकोऽत्राहं, परदेशात्समागतः ॥ ९८॥ दृष्ट्वा चेष्टां कुमारस्य, फणीन्द्रविषवारिणीम् । प्रतिक्रियां चकारासौ, गुणो नैवाभवत्परम् ॥ ९९॥ निर्विषीकरणोपाया, एवं दम्भात्कृता घनाः । जातः कोपि विशेषो न, तदा देवोऽवदत्पुनः ॥ ३०॥ अहो कालगृहीतोऽयमावेष्ट्य निम्बपल्लवैः। अब्धौ प्रवाहितव्योऽथ, किं शवेन विधीयते ? ॥ १॥ हाहाकारं ततो मुक्त्वा, क्षिप्त्वा तं च महोदधौ । सशोकाः सैन्यकास्तस्थुस्तत्र राजसुतं विना ॥२॥ पुरोहितोऽपि दीनास्यो, महादुःखादचिन्तयत् । अन्यथा चिन्तितं कार्य, कृतं दैवेन चान्यथा ॥३॥ Jain Education For Private ONw.jainelibrary.org anal Personal Use Only
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy