SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ॥१६॥ तस्य पुत्री सुनन्दाऽभूत्संप्राप्तवरयौवना । स्त्रीरत्नमतिनिष्पन्ना, विद्याविज्ञानभारती ॥ ८॥ कथाचूडवरस्यार्थे, राजा प्रैषि पुरोहितः । तेनापि मिथिलां गत्वा, विज्ञप्तो रणसारराट् ॥ ८३॥ स्वामिन्मगधनाथस्य, सुनन्दास्ति सुता वरा । तव पुत्रस्य दानाय, भूपेन प्रेषितोऽस्म्यहम् ॥ ८४ ॥ ततः पुरोधसा सार्धं, प्रेषितः सैन्यसंयुतः। मार्गे लक्ष्मीपुरे गत्वा, पटकुट्यां स संस्थित; ॥ ८५॥ पुरेऽत्र कुरुते राज्यं, सुरकेतुनराधिपः। वेत्रिणा कथितं तस्य, कुमारागमनं तदा ॥ ८६ ॥ सुरकेतुगृहेप्यग्रेऽस्त्येको नैमित्तिको महान् । स राज्ञा कौतुकात् पृष्टो, विवाहोऽसौ भवेन्नवा ॥ ८७॥ स जगाद विवाहो हि, भविष्यत्यऽनयोर्द्वयोः । त्रिदशैश्चाल्यमानेऽपि, तदिनं न वलिष्यति ॥ ८ ॥ राज्ञोक्तं शृणु भो विज्ञ ! यदाहं चालयामि तत् ॥ किं तदा भवतः कुर्वे, कथय प्रकटाक्षरम् ? ॥ ८९ ॥ विप्रो जगाद यदि चेत्, कदा केनापि चाल्यते । तदा मे रसनाच्छेदः, कार्यः किं कथ्यते धनम् ॥२९॥ ॥१६॥ इति विप्रपणं श्रुत्वा, भूपोऽप्येवमचिन्तयत् । केन कूटप्रपञ्चेनास्य ज्ञानं कियते वृथा ॥ ९१ ॥ पूर्वप्रसाधितो राज्ञा, चेटकः संस्मृतस्तदा । प्रत्यक्षीभूय सोऽवादीत, कार्य मे कथ्यतां प्रभो ! ॥ ९ ॥ Jain Educat i on For Private & Personel Use Only Xvw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy