________________
अतः कन्यां दशदिनमध्येऽहं नानयामि चेत् । तर्हि वह्निप्रवेशो मे, प्रतिज्ञेति कृता मया ॥६५॥ ज्ञात्वा स्वकार्यसिद्धिं च, तत्सत्त्वं वीक्ष्य हर्षितः । सन्मानपूर्वकं भूपः , कुमारं विससर्ज तम् ॥६६॥ सम्यक् कन्यास्वरूपं तद्, ज्ञातुं चन्द्रोदयेन च । देवताराधनं चक्रे, प्रत्यक्षा सा सुरी जगौ ॥६७॥ हे कुमारेन्द्र ! वैताढ्ये, पुरे गंधसमृद्धने । प्रौढो मणिकिरीटोऽस्ति, विद्याधरशिरोमणिः॥ ६८॥ कृत्वा नन्दीश्वरे यात्रां, वलितः स इहागतः । बन्धुमती सुरूपां च, दृष्ट्वा हृत्वा गतो द्रुतम् ॥ ६९॥ गंगातटे स धवलकूटाख्ये पर्वतेऽधुना । गत्वा करोति सामग्री, परिणेतुं कनीमिमाम् ॥ ७ ॥ चन्द्रोदय ! त्वमुत्तिष्ट, तत्रावाभ्यां हि गम्यते । ततोऽसौ देवतायुक्तः, श्वेतकूटगिरौ गतः ॥ ७१॥ कुर्वन् विवाहसामग्री, खेचरस्तेन हक्कितः । अरे दुष्ट ! किमारब्धं, किमज्ञान ! न लजसि ? ॥७२॥ चौरीभूय हृता कन्या, त्वया पापात्मना ततः । दीयते तेऽधुना शिक्षा, देवखेचरसाक्षिका ॥ ७३ ॥ एवं प्रोक्ते द्वयोर्युद्धं, सञ्जातं विषमं तदा । द्वाभ्यां विद्याबलेनैव, तत्र सैन्यद्वयं कृतम् ॥ ७४ ॥ विद्यया जयदायिन्या, जितस्तेन स खेचरः । मानं मुक्त्वा कुमारस्य, पादयोः पतितो मुदा ॥ ७५ ॥
Jain Educati
ation
For Private & Personal Use Only
Silw.jainelibrary.org
-2