________________
धर्म.
॥२०१॥
Jain Education
सर्वेभ्यो वाञ्छितं दत्ते, लीलावान् गुणसागरः । दाता भोक्ताऽतिवेत्ताऽसौ, सिद्धपुरुषसन्निभः ॥ ५४ ॥ तेन सार्द्धं ममाप्यस्ति, महामैत्री नराधिप ! | पृच्छयते सोऽपि कन्यार्थे, तच्छ्रुत्वा हर्षितो नृपः ॥ ५५ ॥ प्रधानपुरुषा राज्ञा, तस्याह्नानाय प्रेषिताः । शृङ्गारिते गजे तैश्च, कुमारोऽसौ चटापितः ॥ ५६ ॥ वादित्राद्युत्सवैः सार्द्धमानीतश्च नृपान्तिके । अभ्युत्थानालिङ्गनादि, बहुमानं नृपो ददौ ॥ ५७ ॥ पृष्टः कुशलवार्त्ता च कुमारोऽसौ महीभुजा । तत्पार्श्वे श्रीनिवासेन पृष्टं चेति नृपाज्ञया ॥ ५८ ॥ हे मित्र ! नन्दिनी राज्ञो, नाम्ना बन्धुमती वरा । न ज्ञायते हृता केन, तत्स्वरूपं प्ररूपय ॥ ५९ ॥ कुमारेण तदाऽचिन्ति, व्यसने पतितं नरम् । स्वशक्त्या नोद्धरेद् यः किं स नरः कथ्यते नरः ? ॥ ६० ॥ उत्तमा इति विज्ञाय, स्वप्राणैरपि सर्व्वथा । कुर्युः परोपकारं हि, महापुण्यमिदं भुवि ॥ ६१ ॥ उत्तमोऽवसरं प्राप्य, तृणवज्जीवितं धनम् । परित्यज्य परत्राणं, करोत्येव न संशयः ॥ ६२ ॥ विचिन्त्यैवं कुमारेण, त्रिकालज्ञा सुरी स्मृता । ज्ञात्वा कन्यास्वरूपं च स प्रोवाच नृपं प्रति कष्टसाध्यमिदं कार्य, दृश्यते हे नराधिप । । भवतां प्रार्थना चापि, क्रियते निष्फला कथम् ?
॥
॥
For Private & Personal Use Only
६३ ॥
६४ ॥
महा.
॥२०१॥
ainelibrary.org