________________
अन्यदा तावुभौ मित्रे, वने देवकुले गतौ । क्रीडां कृत्वोपविष्टौ च, तत्र वार्तापरायणौ ॥ ४३ ॥ एतस्मिन् समये पुर्या, जातः कोलाहलो महान् । तत्कारणावलोकार्थं, कुमारोऽप्रेषयन्नरान् ॥४॥ ते गत्वा तत्र चागत्य, प्रोचुश्चन्द्रोदयं प्रति । अस्मिन्नेव पुरे राजा, सूरसिंहोऽस्ति विक्रमी ॥ १५॥ | तस्य वन्धुमती पुत्री, प्राणेभ्योऽप्यतिवल्लभा । रूपेण निर्जिता देवी, गुणैर्लक्ष्मीर्यया जिता ॥ ४६॥ अधुना सा गवाक्षस्था, ज्ञायते नहि केनचित् । हृताऽकस्मात् ततः पुर्यामस्ति कोलाहलो महान् ॥४७॥ इति श्रुत्वा कुमारण, चिन्तितं निजचेतसि । अहो हरति कः कन्यां, पुरेऽस्मिन्मयि संस्थिते? ४८ ऊचेऽथ मयि चावस्थे, याति यत्तन्न सुन्दरम् । किन्तु किं क्रियते १ येन, न जानात्यत्र कोऽपि माम् ४९० नोपलक्षति मां कोऽपोत्युक्त्वाऽगान्मित्रयुक् पुरे । राज्ञाऽथ सूरसिंहेन, सर्वत्रान्वेषिता सुता ॥ ५० ॥ शुद्धिः कुत्रापि नो जाता, तस्या वार्तापि नो श्रुता । ततो महार्तितो भूपः, पतितो दुःखसागरे ॥५१॥ भूपदुःखमति ज्ञात्वा, गत्वा मन्त्रिसुतोऽब्रवीत् । स्वामिन्नत्रास्ति विद्यावान, कोऽपि वैदेशिको नरः॥५२॥ अतीव ज्ञानवान् सोऽस्ति, निद्रव्यो दृश्यते पुनः । बहुद्रव्यव्ययं कुर्यात्, परदुःखं हरेत्सदा ॥५३॥
Jain Educa
T ematiana
For Private & Personal Use Only
www.jainelibrary.org