SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ मार्गमुल्लङ्घयामास, स गच्छन् वायुवेगतः । तस्याटव्यां द्विजश्चैको, मिलितः कपटी हृदि ॥ २१ ॥ निर्गुणः सोऽतिनिःस्नेहो, वाचालेषु शिरोमणिः । प्रियवाक्यैः कुमारस्य, गृहीतं तेन मानसं ॥ २२ ॥ प्रीतिः पथिकयोर्जाता, द्वयोः मिलितयोस्तयोः । परस्परं च कुर्वाणो, वात्तौ तौ पथिचेलतुः ॥ २३ ॥ महारण्येऽमिलद्धाटी, सा कुमारेण निर्जिता । क्षेमेणैव क्षमापुस्, वने विश्रमितौ च तौ ॥ २४ ॥ सिद्धकूटगिरेः शृङ्गे, तत्र विश्वेश्वराभिधः । एकोऽस्ति सिद्धपुरुषः, कुमारं प्रति सोऽब्रवीत् ॥२५॥ अहो सत्त्ववतां मुख्य !, भाग्यसौभाग्यसुन्दर । तुष्टोऽहं तव पुण्येन, सिद्धविद्या ददामि ते ॥ २६॥ तिस्रः सन्ति सुविद्या मे, प्राप्यन्ते या हि पुण्यतः । आयुर्मदीयमल्पं च, तेन तुभ्यं ददामि ताः॥२७॥ विद्यादेवीभिरुक्तं मे, चन्द्रोदयनराय वै । त्वया वयं प्रदातव्यास्तेन तुभ्यं ददाम्यहम् ॥ २८ ॥ तिसृणां शृणु माहात्म्यमेका स्वर्णप्रदा सदा । द्वितीया जयदा युद्ध, वैरिवर्गविनाशिनी ॥ २९ ॥ तृतीया तु त्रिकालज्ञा, विद्यात्रयमिदं स्फुटम् । गृहाण साधनाहोमजपादिविधिसंयुतम् ॥ ३०॥ कृतं सिद्धेन सांनिध्यं, तस्य विद्याप्रसाधने । सिद्धास्तिस्रोऽपि ता विद्या, ददुद्देव्यो वरत्रयम् ॥ ३१॥ O For Private 8 Personal Use Only JainEducation Non w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy