SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ महा. ॥१९९॥ म. विचिंत्यैवं कुमारेण, सा चेटी वारिता तदा । अरेरे किं कथयसि ?, न वाच्या वाग् ममेदृशी ॥११॥ परनारी न पश्यामि, ममैषा जननी भवेत् । इति निर्भसिता दासी, गत्वा राज्ञीपुरोऽवदत् ॥ १२ ॥ तव चेतसि या वार्ता, तस्य स्वप्नेऽपि सा नहि । इति श्रुत्वापि कामाक्षा, तद्रागान्न निवर्तिता॥१३॥ अन्येयुः प्रेषिता दासी, तथा तेन न मानिता । राज्ञी तथापि नामुञ्चदाशां कामो हि दुर्जयः ॥१४॥ यतः-दुर्जयोऽयमनंगो हि, विषमा कामवेदना । कृत्याकृत्यं न जानाति, भूतग्रस्त इव भ्रमेत् ॥१५॥ अन्यच्च-विकलयति कलाकुशलं, हसति शुचिं पण्डितं विडम्बयति ।। अधरयति धीरपुरुष, क्षणेन मकरध्वजो देवः ॥ १६ ॥ कियदिनान्तरे दासी, तया सम्प्रेषिता पुनः । यतः कुव्यसनी कोऽपि, निषिद्धोऽपि न तिष्ठति ॥१७॥ तदा चन्द्रोदयो दध्यावहो मे विधिबक्रता । ममात्र तिष्ठतः कश्चित् , कलंको हि चटिष्यति ॥१८॥ अतो देशान्तरं यामि, पुनः कति दिनान् किल । यथा तातो न जानाति, तथाऽहं निस्सराम्यथ१९॥ मिषेणानेन दृश्यंते, विनोदाः कति भूतले । विमृश्यैवं वालयित्वा, चेटी सोऽयाचलन्निशि ॥२०॥ ॥१० Jain Education a liosa For Private Personel Use Only PMw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy