SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ॥१९७॥ यतः-दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्व, किमन्यत्कामदैव सा ॥७५॥ महा. दमो देवगुरूपास्तिहनमध्ययनं तपः । सर्वमप्येतदफलं, हिंसां चेन्न परित्यजेत् ॥ ७६ ॥ भूपः श्रुत्वेति दध्यौघिर, मिथ्यात्वं भवकारणम् । पुण्यबुद्धयापि यजीवा, अर्जयन्त्येव पातकम्॥७॥ असौ पुत्रो मदीयोऽपि, नरत्वं प्राप्य सत्कुलम् । अल्पायुन स्थिरो जातो, मिथ्यात्वात्कृतहिंसया ॥७॥ ध्यात्वेति भववैराग्यात् , त्यक्त्वा राज्यादिकं नृपः। प्रव्रज्यादुस्तपः तप्त्वा, प्राप्य ज्ञानं शिवं ययौ ॥७९॥ इत्थं श्रीवलिसारस्याख्यानं श्रुत्वा स्वभावतः । पुष्पचूलो नृपोऽपृच्छत्पुनः केवलिनं मुनिम् ॥३८० ॥ भगवन् ! ब्रूहि मे पुत्र, एष चन्द्रोदयाभिधः । क्रीडां कर्तुं वने प्राप्तः, कस्मात्केन हृतः पुरा ॥८१ ॥ केवल्यूचे नरेन्द्र ! त्वं, सावधानतया शृणु । कथ्यते तव पुत्रस्य, सम्बन्धः प्राग्भवोद्भवः॥ ८२॥ विदेहे पुष्कलावत्यां, विजये विपुलापुरी । वणिकपुत्रावुभौ जाती, भ्रातरौ स्नेहपूरितौ ॥ ८३ ॥ वृद्धस्य वनिता या सा, पतिप्रेमानुवर्तिनी । महामोहवशाद्भर्तुविरहं सहते न हि ॥ ८४॥ अन्यदा केन कार्येण, वृद्धो ग्रामान्तरं गतः । हास्यतो भ्रातृजायाया, इत्युक्तं लघुबन्धुना ॥ ८५॥ ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy