SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ततः परं शरीरेऽस्य, ज्वरशूलशिरोऽर्तयः ! कासश्च मूत्रकृच्छ्राद्या, अजायन्त महारुजः ॥ ६४ ॥ रोगैः प्रपीडितं पुत्रं, दृष्ट्वा भूपोऽप्यनेकशः । वैद्यानाकार्य तस्याङ्गे, सञ्चिकित्सामकारयत् ॥ ६५ ॥ उपचारा घना वैद्यैः, कृता नाभूद्गुणः परम् । जलहीनो यथा मत्स्यो, न रतिं प्राप स क्षणम् ॥ ६६ ॥ तौ मातापितरौ दृष्ट्वा, रोगग्रस्तं स्वनन्दनम् । महार्तिसागरे वाढं, पतितौ मोहमोहितौ ॥ ६७ ॥ चिकित्सा च कृता वैद्यैरोषधीनां शतैरपि । नैव रोगक्षयो जातः, स मृत्यु प्राप कर्मतः ॥ ६८॥ महादुःखी प्रियायुक्तो, भूपोऽभूत्पुत्रमृत्युतः । पप्रच्छ ज्ञानिनं चैवमल्पायुमें सुतः कथम् ? ॥ ६९॥ ज्ञानी जगाद हे राजन् !, बालेनानेन प्राग्भवे । मिथ्यात्वेन तपो भावाद्गृहीतं तापसं व्रतम् ॥३७०॥ कन्दमूलादिभोजी स, वाद्यारम्भकारकः । नीरणागलितेनाभूत् , स्नानतर्पणतत्परः ॥ ७१ ॥ यतः-संवत्सरेण यत्पापं, कैवर्त्तकस्य जायते । एकाहेन तदाप्नोति, अपूतजलसंग्रही ॥ ७२ ॥ यः कुर्यात्सर्वकार्याणि, वस्त्रपूतेन वारिणा । स मुनिः स महासाधुः, स योगी स महाव्रती ॥७३॥ तेनाज्ञानाजलचरादिकजीववधः कृतः । सोऽल्पायुस्ते सुतो जातो, दयातो दीर्घजीवितम् ॥ ७४ ॥ Jain Education a l For Private Personal Use Only A jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy