________________
Jain Educat
अहो अत्रैव संसारे, सुखं किमपि नो भवेत् । केन केन प्रकारेण, सुखिनोऽपि हि दुःखिनः ॥ ४३ ॥ बालस्य तीव्रदुःखानि दृष्ट्वा निजसुतस्य च । बलसारमहीपालो, निर्विण्यो भववासतः ॥ ४४ ॥ तदा सभासदः प्रोचुः प्रभो ! को बलसारराट् । केवली स्माह भो भव्याः !, सम्बन्धः श्रूयतामिति ॥ ४५ ॥ तथाहि - पुरे लीलापुरे रम्ये, बलसारनृपोऽभवत् । लीलावती प्रिया तस्य, पतिप्रेमप्रमोदिनी ॥४६॥ अनपत्यत्वदोषेण, साऽत्यन्तं हृदि दुःखिनी । नित्यं वाञ्छति सन्तानं, न भवेत्किन्तु कर्म्मतः ॥४७॥ अन्यदा मध्यरात्रौ स, जजागार नृपोऽथ च । शुश्राव मधुरं गीतं दिव्यध्वनिमनोहरम् ॥ ४८ ॥ मृदङ्गवंश वीणातालदुन्दुभिसुस्वरान् । क्वापि श्रुत्वा नृपो दध्यौ किमिदं दिव्यनाटकम् ? ॥ ४९ ॥ पल्यङ्काद्भूप उत्थाय वने गानानुसारतः । ययौ श्रीशान्तिनाथस्य, प्रासादस्तत्र वर्त्तते ॥ ३५० ॥ जिनाग्रे तत्र नृत्यन्तो, गायन्तश्चापि खेचराः । दृष्टास्तेनाथ तल्लीनो, नृत्यं पश्यन्नसौ स्थितः ॥५१॥ क्षणं ते नाटकं कृत्वा गता विद्याधरास्ततः । आयान्तो मिलितास्तेषां सम्मुखाः खेचराः परे ॥ ५२ ॥ तेषां परस्परं युद्धं सञ्जातं पूर्ववैरतः । बलेन युध्यमानास्ते, गता दूरतरं कियत् ॥ ५३ ॥
Rational
For Private & Personal Use Only
www.jainelibrary.org