SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ॥ १९५॥ हर्षाश्रूणि सृजन भूप, आलिलिङ्ग निजाङ्गजम् । नानाविधवधूयुक्तः, पितुः पादौ ननाम सः ॥ ३२ ॥ सुन्दरीभिर्गीयमानः स्तूयमानश्च बन्दिभिः । वाद्यनादैः समं पुत्रः, पुरे पित्रा प्रवेशितः ॥ ३३ ॥ निजावासे स आगत्य, प्रियाभिः सह संस्थितः । वालिताः खेचराः सर्वे, सार्थे येऽत्र समागताः ॥ ३४ ॥ युवराजपदं दत्तं पित्राऽस्मै भाग्यशालिने । आरोपिता समस्ताऽथ, राज्यचिन्ताऽपि नन्दने ॥ ३५ ॥ अन्यदा तत्पुरोद्याने, मुनिवृन्दसुसेवितः । आगात्केवली भुवनचन्द्रश्चन्द्र इवोज्ज्वलः ॥ ३६ ॥ विज्ञायागमनं तस्य, पुष्पचूलो नरेश्वरः । वन्दनार्थं ययौ तत्र, पुत्रादिपरिवारयुक् ॥ ३७ ॥ तिस्रः प्रदक्षिणा दत्त्वा स ववन्दे मुनीश्वरम् । प्रमादं दूरतो मुक्त्वोपविष्टो रचिताञ्जलिः ॥ ३८ ॥ | तदा केवलिनाऽऽरेभे, देशना पापनाशनी । भो भव्याः ! श्रूयतां सम्यग्, , विधाय स्थिरमानसम् ॥ ३९ ॥ मानुष्यमार्यदेशश्च कुलमारोग्यता पुनः । आयुरित्यादिसामग्री, दुर्लभा धर्म्मसाधने ॥ ४० ॥ यतः - भवकोटीष्वपि दुर्लभ मिदमुपलभ्येह मानुषं जन्म । येन कृतं नात्महितं, निरर्थकं हारितं तेन ४१ ॥ | मा चिन्तय परच्छिद्रान्, परविभवं माऽभिवाञ्छ मनसापि । माब्रूहि क्रूरवचनं, परस्य पीडाकरं कटुकम् ॥ Jain Education international For Private & Personal Use Only मद्दा. ।।१९५ ॥ jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy