SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ कुमारं सप्रियं नत्वा, वैताट्ये विमले पुरे । उत्सवात्सिंहनादेन, प्रवेशस्तस्य कारितः ॥ २१ ॥ पुत्रीविवाहजङ्गोऽथ, कृतस्तेन सविस्तरः । अर्धराज्यञ्च जामात्रे, दत्तं तत्करमोचने ॥ २२ ॥ दत्ताश्च सकला विद्या, विधिना तेन साधिताः । चन्द्रोदयः सिद्धविद्यो, भूचरः खेचरोऽभवत् ॥ २३ ॥ ज्ञात्वाऽथ पुत्रवृत्तान्तं, समराद्विजयो नृपः । आगत्य पादयोर्लग्नः, कुमारस्य महोन्नतेः ॥ २४॥ । भुवनश्रीवर्धू दत्त्वाऽपराधः क्षामितः स च । पुत्राभ्यां यत्कृतं वैरं, स विरोधश्च वारितः ॥ २५॥ | तस्य पुण्यप्रभावेण, सेवां विद्याधरा व्यधुः । स्थित्वाऽत्र कतिवर्षाणि, सुखं भोगान बुभोज सः ॥२६॥ एवं हि परदेशेषु, वर्षसप्तशतानि सः। कौतुकात् ममयामास, परिणीतं प्रियाऽष्टकम् ॥ २७ ॥ अन्यदा स जजागार, यामिन्याः प्रहरेऽन्तिमे । सस्मार निजराज्यञ्च, तत्र यामीत्यचिन्तयत् ॥२८॥ आनयित्वाऽथ कमलमालां सर्वप्रियायुतः । विद्याभृत्सैन्यसंयुक्तः, आगतः स पुरे निजे ॥ २९ ॥ पुष्पचूलो नृपस्तावत्, श्रुत्वा पुत्रागमं चिरात् । मीलनाथ महत्स्फूर्त्या, सम्मुखस्त्वरितं ययौ ॥३३०॥ कृतानेकवधूद्राहं, विद्याभृत्सैन्यसंयुतम् । लक्ष्मीयुक्तं विमानस्थं, पुत्रं दृष्ट्वा मुमोद सः ॥ ३१ ॥ Jain Education For Private & Personel Use Only Wijainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy