________________
३२
Jain Educatio
एवं कृतेऽत्र भो भद्र !, सप्तमे दिवसे तव । भविष्यत्येव प्रत्यक्षा, दक्षा शासनदेवता ॥ ४८ ॥ ततस्त्वद्भाग्ययोगेन तुष्टा दास्यति यं वरम् । तमहं नैव जानामि, प्रोक्त्वेति स गतो मुनिः ॥ ४९ ॥ अथो सागरचन्द्रेण, शुचीभूत्वा शुभे दिने । सर्व्वसामग्रिकां कृत्वा, प्रारब्धं मन्त्रसाधनम् ॥ १५० ॥ सप्तमे दिवसे तत्र, मध्यरात्रे समागते । प्रत्यक्षीभूय देवी सेत्यवदत् पत्रिकान्विता ॥ ५१ ॥ | पत्रीं वत्स ! गृहाणेमां, गाथाऽत्रास्ति महार्थयुक् । विक्रेया हेमलक्षेण, चन्द्रोदयस्तु लास्यति ॥ ५२ ॥ तादृशं नास्ति ते पुण्यं किञ्चित् येनाधिकं ददे । इत्युक्त्वा चीष्टिकां दत्त्वा गता देवी निजस्थितिम् ॥ ५३ ॥ ततः सागरचन्द्रोऽसौ गाथां नीत्वा चतुष्पथे । गतश्चन्द्रोदयस्तत्र, क्रीडंस्तस्यामि लत्पथि ॥ ५४ ॥ तत्करे पत्रिकां दृष्ट्वा, ज्ञात्वा गाथाञ्च राजसूः । प्रोचे हे मित्र ! गाथैषा, मह्यं मूल्येन दीयताम् ॥५५॥ गाथामूल्यं हेमलक्षं, सागरेण निवेदितम् । दत्त्वा मूल्यं गृहीत्वा च स गाथामित्यवाचयत् ॥ ५६ ॥ तद्यथा-अपत्थियं चिय जहा एइ दुहं तह सुर्हपि जीवाणं । ता मुत्तुं सम्मोहं, धम्मे चिय कुणह पडिवन्धं ५७ इमां गाथां गृहीत्वा स गतश्चन्द्रोदरो गृहम् । सागरोऽपि निजस्थानं, प्रययौ स्वर्णलक्षयुक् ॥ ५८ ॥
ational
For Private & Personal Use Only
www.jainelibrary.org