SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ धात्रीभिः पाल्यमानोऽथ, स चन्द्रोदयनन्दनः । वर्द्धते स्म क्रमान्नित्यं, शुक्लपक्षे यथा शशी ॥ २८ ॥ विद्याग्रहणयोग्योऽसौ सञ्जातः सप्तवार्षिकः । महोत्सवेन पाठार्थं, पण्डिताय समर्पितः ॥ २९ ॥ देवांशत्वात्स्वल्प कालेनाधीतं तेन वाङ्मयम् । शस्त्रक्रमादिकः सर्व्वः, कलाभ्यासश्च निर्ममे ॥ १३० ॥ | क्रमात्स प्राप तारुण्यं, तरुणीमानमर्द्दनम् । करोति विविधां क्रीडां, सुमित्रैः सह सर्व्वदा ॥ ३१ ॥ इतश्च नगरे तस्मिन्महेभ्योऽभून्महर्द्धिकः । नामतोऽमरचन्द्राख्यश्चन्द्रलेखाप्रियाऽस्य च ॥ ३२ ॥ तयोः सागरचन्द्रोऽभूत्पुत्रो दक्षः कलासु च । सदाचारविचारज्ञः, संस्तुतः सज्जनैर्जनैः ॥ ३३ ॥ | दानादिधर्मकर्माणि, नो त्यजति कदापि सः । इयदस्तीति तोहे, धनसङ्ख्यां न वेत्ति कः ? ॥३४॥ सुखेनागमयत्कालं, कृपालुः सर्वजन्तुषु । कुलाचारं स नामुञ्चत्, प्राप्तायां विषमापदि ॥ ३५ ॥ | तस्यान्तरायकर्मत्वान्महेभ्यस्यापि हाऽन्यदा । अपहारं विना लक्ष्मीः, क्षीणा जाता स्वभावतः ॥ ३६॥ तथाप्यसौ सदाचारं दानधर्म्मञ्च नामुचत् । स्तोकादपि ददौ स्तोकं, साध्वादिभ्यो महादरात् ॥३७॥ एवं द्वादश वर्षाणि, ययुर्दुरसहयोगतः । ततोऽन्तरायकर्मास्य, क्षयं प्राप्तं घनं क्रमात् ॥ ३८ ॥ Jain Educationational For Private & Personal Use Only ww.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy