________________
धर्म. गर्भस्य पूर्णकालेऽथ, शुभयोगे शुभे दिने । ग्रहेषु स्वगृहस्थेषु, स्वोच्चस्थेषु च केषुचित् ॥ १८ ॥ ॥१८॥ | सुलग्ने सौम्यवेलायां, निशि चन्द्रोदये सति । सुवारे शुक्लसप्तम्यां, राज्ञी पुत्रमजीजनत् ॥ १९ ॥
॥युग्मम् ॥ नृपं वर्धापयामासुस्तदा दास्यादयो जनाः। सद्व पनिका राजा, ददौ तेभ्यो यदृच्छया ॥ १२०॥ पुत्रोत्पत्तिं नृपः श्रुत्वा, देहे हर्षेण न ममौ । नानायुक्त्या निजनरैः, पुरीशोभामकारयत् ॥ २१ ॥ स्थाने स्थाने मल्लयुद्धं, नाटकानि चतुष्पथे । द्रव्यलक्षाणि दीयन्ते, एवं जन्मोत्सवं व्यधात् ॥ २२ ॥ चन्द्रार्कदर्शनं झोलया, शयनं बलिदापनम् । इत्यादीनि सुते जाते, सर्वकर्माणि जज्ञिरे ॥ २३ ॥ । स्वजने गौरवं कृत्वा, भोज्यवस्त्रादिदानतः । भगिनीवृद्धनारीणामने नृपतिरब्रवीत् ॥ २४ ॥ अहं प्राक्तनपुण्येन, तपसां साधनेन च । श्रीचन्द्रप्रभभक्त्या च, देवतावरमाप्तवान् ॥ २५॥ मनोरथशतैः सार्द्ध, सञ्जातो मम नन्दनः । युष्मत्प्रसादतः सर्व, वाञ्छितं फलितं मयि ॥ २६ ॥ चन्द्रोदयेति नामास्तु, चन्द्रस्वप्नात् सुतस्य मे । दोहदाच्चन्द्रपानस्य, चन्द्रोदरेति चापरम् ॥ २७ ॥
॥१८॥
jainelibrary.org
in
due an
For Private Personal Use Only
n a