________________
|
ईदृशे दोहदे जाते, दूष्पूर्ये बलिनोऽपि हि । तस्यासिद्धौ तदा राज्ञी, दुर्बलाऽभूद्दिने दिने ॥७॥ दुस्साध्यं दोहदं मत्वा, नृपः पप्रच्छ मन्त्रिणः । क्षीणदेहाऽभवद्राज्ञी, कोऽत्रोपायो विधीयते ॥ ८॥ विमृश्य सचिवः किञ्चित्, प्राह भूपं प्रति स्फुटम् । स्वामिन् ! बुद्धिप्रयोगेण, पूर्यतेऽत्रैष दोहदः ॥९॥ गृहजालान्तराद्धक्रे, भूमिस्थजलभाजने । प्रतिविम्बितेऽथ राड्याश्चन्द्रं पिबेति कथ्यते ॥ ११०॥ सान्धकारे ततो यावच्चन्द्रभ्रान्त्या पिवेज्जलम् । तावदाच्छाद्यते पुंसा, गृहच्छिद्रं शनैः शनैः ॥११॥ चन्द्रः पीत इति ज्ञाते, राड्या सेत्स्यति दोहदः । विद्याधरास्तु दुस्साध्या, नृणां वैताव्यसंस्थिताः॥१२॥ तथाप्ययमुपायोऽस्ति, कश्चिदत्रेन्द्रजालिकः । आकार्यतेऽथ तेनैव, कार्यते चेति नाटकम् ॥१३॥
वैताढ्यं खेचरांश्चापि, विद्याधरपुराण्यपि । तदेन्द्रजालिकः सर्व, रचयिष्यति विद्यया ॥ १४ ॥ आयुष्माकं सुभटीभूता, एके तेऽपीन्द्रजालिकाः। राज्ञीदृष्टौ रणं कृत्वा, साधयिष्यन्ति खेचरान् ॥१५॥ राजनित्थं कृते गर्ने, सन्तोषो द्राग्भविष्यति । गर्भतोषे हि राज्ञीयं, हर्षात्पुष्टा भविष्यति ॥ १६ ॥ मन्त्रिप्रोक्तमिदं सर्वे, कारयित्वाऽथ भूभुजा । प्रियायाः पूरितो वेगाच्चन्द्रपानादिदोहदः ॥ १७ ॥
Jain Education Woonal
For Private & Personal Use Only
lal
PNo.jainelibrary.org