________________
धर्म.
।। १८४ ।।
एतस्मिन् समये कोऽपि देव एको महर्द्धिकः । सम्पाल्य स्वायुरीशानस्वर्गाच्च्यवनमाप्तवान् ॥ ९६ ॥ महा. पुष्पभद्रपुरे तस्मिन्, पुष्पचूलनरेशितुः । भार्यायाः पुष्पमालायाः, सोऽथ कुक्षाववातरत् ॥ ९७ ॥ सायं राज्ञी प्रतिक्रम्य, स्मृत्वा पञ्चनमस्कृतिम् । सुप्ता सुखेन शय्यायां स्वप्नमेवं तदैक्षत ॥ ९८ ॥ ईशानतः सुरः कोऽपि, भास्वद्रूपो महर्द्धिकः । आगत्य मगृहे तस्थौ, गीर्वाणगुणपूरितः ॥ ९९ ॥ पुनर्जानाति सा चन्द्र, आश्विन पूर्णिमानिशि । सहसागत्य मत्कुक्षौ प्रविवेश मुखाध्वना ॥ १०० ॥ जजागाराथ हृष्टा सा, संवीक्ष्य स्वप्तमीदृशम् । शय्यां विमुच्य गत्वाऽथ नृपाद्ये तं न्यवेदयत् ॥ १॥ राजोचे स्वप्नमाहात्म्यात्, कश्चित्स्वर्गाच्च्युतः सुरः । तव भावी सुतः प्रौढः, फलितो मे मनोरथः ॥२॥ श्रुत्वेति हर्षिता राज्ञी, पुण्यकृत्यं चकार सा । रराज बिभ्रती गर्भ, रत्नं रत्नखनिर्यथा ॥ ३ ॥ यथा च वर्द्धते गर्भ, ऋद्विवृद्धिस्तथा गृहे । यद्यत्प्रार्थयते राज्ञी, तत्तद्भूपेन पूर्यते ॥ ४ ॥ प्राप्ते च सप्तमे मासे, महगर्भानुभावतः । सर्वाङ्गसुन्दरा दीप्ता, दधौ राज्ञीति दोहदम् ॥ ५ ॥ एवं जानाति चित्ते स्वे, चन्द्रं पीत्वा ततः परम् । वैताढ्ये खेचरान् सर्वान् साधयामि समाधिना ॥६॥
Jain Educaticnational
For Private & Personal Use Only
90000004
"
******
॥ १८४ ॥
www.jainelibrary.org