SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ चन्द्रं दधद्दक्षिणपाणिपझे, वामे तथा मुद्गरमद्भुतं च ॥ ८८ ॥ ज्वालादेवी पिशाङ्गा मृदुललितचतुर्दोभिराभासमाना, भक्ता चन्द्रप्रभस्य त्वरितवरतरा हस्तियानाधिरूढा । बिभ्राणा पाणियुग्मे निशिततममसिं दक्षिणे मुद्गरञ्च, स्फूर्जतपशुश्च वामे फलकमपि करे प्रीतये साऽस्तु देवी ॥ ८९ ॥ प्रत्यक्षीभूय यक्षोऽसौ, यक्षिणीसहितस्तदा । उवाच वचनं चारु, चातुर्यगुणगर्भितम् ॥ ९०॥ अहो नरेन्द्र ! जानीहि, मां चन्द्रप्रभसेवकम् | तव पुण्येन तुष्टोऽहं, वरं याचस्व वाञ्छितम् ॥ ९१ ॥ युवयोस्तपसाऽऽकृष्टो, रञ्जितो जिनभक्तितः । अत्राहं विजयो यक्ष, आगतो यक्षिणीयुतः ॥ ९२ ॥ इत्थं श्रुत्वा च नत्वा तौ, राजोचे विनयान्वितः । देहि देव ! सुतं भव्यमन्यैः सम्पूर्णमेव मे ॥ ९३ ॥ भूयात्सुपुत्र इत्युक्त्वा, कृता वृष्टिः सुरेण च । स्वर्णषोडशकोटीनां, मणिकोटित्रयस्य च ॥ ९४ ॥ इयत्वा नरेशाय, देवो देवीयुतो गतः । ध्यानं सम्पूर्य भूपोऽपि, प्रियायुक्तो मुदं दधौ ॥ ९५॥ Jain Educat i onal For Private Personel Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy