SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभजिनेन्द्राग्रे, ढौकनीयो महातरुः । चन्द्रप्रभजिनध्यानं, कार्य यावत्तपोविधिः ॥७९॥ ॥१८॥ सप्तक्षेत्रेषु सद्वित्तं, वपनीयं स्वशक्तितः । श्रीसाधर्मिकवात्सल्यं, कार्य सङ्घार्चनान्वितम् ॥ ८॥ इत्थं कृते महाराज!, तव सेत्स्यति वाञ्छितम् । भविष्यति सुतो भव्यो, निर्मलं कुरु तत्तपः ॥१॥ इति श्रुत्वा प्रजाधीशो, हर्षितः प्रियया युतः। आरेभे सुमहूर्ते च, गुरूक्तविधिना तपः ॥ ८२ ॥ जाते तपसि सम्पूर्णे, क्षमायुक्तः क्षमापतिः । उद्यापनं ततश्चक्रे, सम्पूर्ण विधिसंयुतम् ॥८३॥ सत्साधर्मिकवात्सल्यं, सङ्घपूजान्वितं कृतम् । दीनोद्धारादिकं चक्रे, चक्रे मारिनिवारणम् ॥८॥ सन्तोष्य सर्वलोकांश्च, पश्चात् पारणकं कृतम् । जिनालये विशेषेण, तद्दिने चोत्सवः कृतः ॥८५॥ सन्ध्याकाले दिने तस्मिन्पूजां कृत्वा जिनाग्रतः। कायोत्सर्गस्थितौ तौ द्वौ, जिनध्यानपरायणौ॥८६॥ लयलीनोऽभवद्यावन्नृपो राज्ञीसमन्वितः। तावदाकाशमार्गेणागाद् यक्षो यक्षिणीयुतः ॥८७॥ युग्मम् ।? __स च कीदृशः?। श्यामस्त्रिनेत्रो द्विभुजाभिरामः, सुहंसयानो विजयाख्ययक्षः । Jan Education For Private Personel Use Only
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy