SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ फाल्गुनीपूर्णिमायां प्रागुपवासो विधीयते । चतुर्विधाहारमुक्तस्ततश्च प्रतिपदिने ॥ ६८॥ आहारे कवला ग्राह्याः, पञ्चदश सुमानतः। द्वितीयायां तिथौ ग्राह्याः, कवलाश्च चर्तुदश ॥ ६९ ॥ एवं तिथौ तिथौ प्रोक्ता, कवलैकैकहीनता । अमावास्यादिने ग्रास, एक एव च गृह्यते ॥ ७० ॥ ततः शुक्लप्रतिपदि, ग्राह्यं च कवलद्वयम् । तृतीयादिष्विति ग्राह्या, पासा एकैकवृद्धितः ॥ ७१ ॥ चतुर्दश्यां पञ्चदश, भवन्ति कवला इति । चैत्र्यां तु पूर्णिमायां स्याच्चतुर्धाहारवर्जनम् ॥ ७२ ॥ प्रतिपद्यपि कर्त्तव्य, उपवासस्तथैव च । तत्पारणे द्वितीयायां, कार्यमेकाशनं तपः ॥ ७३ ।। ततश्चैकान्तराः कार्या, उपवासास्त्रयोदश । चतुर्दश्यां च वैशाख्यां, कार्य षष्ठतपः पुनः ॥ ७४॥ एकाशनं पारणके, ह्येवं चान्द्रायणं तपः । सम्यक्त्वशीलयुक्तेन, कार्यमेतत्तपो महत् ॥ ७५॥ कार्यमावश्यकं तत्र, विशेषाद्देवपूजनम् । कथा पुण्यस्य कर्त्तव्या, कर्तव्या च कृपाऽङ्गिषु ॥ ७६ ॥ तपउद्यापनं पश्चात्, कर्त्तव्यमतिविस्तरात् । कार्यों वृक्षः सुवर्णस्य, तस्य मूल्यञ्च रूपजम् ॥ ७७॥ पत्राणि च प्रवालस्य, मणिसत्कफलानि च । कार्य रूप्यमयं चन्द्ररूपं वृक्ष्यस्य चोपरि ॥ ७८ ॥ End IMiona For Private Personal use only hwjainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy