SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ धर्म. तपोमाहात्म्यमेवं हि, ज्ञात्वा तत्साध्यतां प्रिये!। सन्तोषं भज चित्ते च, हर्ष धेहि शुचं त्यज ॥ ५८॥ महा. ॥१८॥ इतश्च समये तत्र, चारणर्षिः समागतः । वन्दापनाय भूपस्य, धर्मव्याख्याकृतेऽपि च ॥ ५९॥ नृपेणोत्तमसंस्थाने, निवेश्य मुनिपुङ्गवः । ववन्दे परया भक्त्या, तया राज्याऽपि भावतः ॥ ६ ॥ धर्माशिष मुनिर्दत्त्वा, पारेभे धर्मदेशनाम् । अहो असारे संसारे, सारं सुकृतसेवनम् ॥ ६१ ॥ यतः-सर्पो हारलता भवत्यसिलता सत्पुष्पमालायते, सम्पद्येत रसायनं विषमपि प्रीतिं विधत्ते रिपुः।। देवा यान्ति वशं प्रसन्नमनसः किं वा बहु बमहे, धर्मो यस्य नभोऽपि तस्य सततं रत्नैः परं वर्षति ॥२॥ श्रुत्वा सद्देशनां प्रान्ते, मुनि नत्वा नृपो जगौ । भगवन् ! ब्रूहि तत्सम्यग्, भवेयेन सुतो मम ॥६३॥ मुनिरूचेऽन्यसावा, वयं ब्रूमो न किञ्चन । कल्पवत्कामदं नित्यं, परं साधय सत्तपः ॥ ६४ ॥ किं कुर्वेऽहं तपश्चैवं, राज्ञा पृष्टेऽवदद्गुरुः । पुत्रेच्छा यदि ते तर्हि, कुरु चान्द्रायणं तपः ॥ ६५॥ ॥१८॥ नृपोऽवादीत्कृपां कृत्वा, तत्तपो विधिपूर्वकम् । प्रभो! कथय येनाहं, साधयामि प्रियायुतः ॥ ६६ ॥ गुरुर्जगाद फाल्गुन्यां, प्रारम्भः प्राग्विधीयते । वैशाखीपूर्णिमायां तु, पूर्णं भवति तत्तपः ॥ ६७ ॥ nal Jain Education Io ना For Private Personal Use Only A w .jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy