SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ घनं किं कथ्यते स्वामिन् !, विना सन्तानमद्य मे । स्फारहारादिशृङ्गारोऽप्यसारः स्वप्नसन्निभः ॥४८॥ | तच्छ्रत्वा नृपतिश्चिने, ततोऽधिकमचिन्तयत् । सत्यं वक्ति प्रिया ह्येषा, येन मे नास्ति संततिः ॥ १९॥all दृश्यते कुलविच्छेदः, सुतहीनस्य मेऽधुना । किङ्करोमि क्व गच्छामि, किं स्मरामि समीहितम् ? ॥ ५० ॥ मम दुष्टेन दैवेन, न्यूनमन्यत्कृतं न किम् ? । एकं सुतसुखं मह्यं, किं न दत्तं दुरात्मना? ॥ ५१॥ दोषं दत्त्वेति देवस्य, पुनर्भूपो व्यचिन्तयत् । अहो मे प्राक्तनं पुण्यं, हीनं नूनं प्रवर्तते ॥५२॥ . भवेऽस्मिन्नपि तत्पुण्यं, भावनासहितं मया । प्रारभ्यते विशेषेण, येन सिध्यति वाञ्छितम् ॥ ५३ ॥ ततो भूपोऽवदत्पत्नी, खेदं मा कुरु मानसे । उपायं तं करिष्यामि, येन भावी सुतोत्तमः ॥ १४ ॥ साध्यते प्रथमं पुण्यं, पुण्यतः किङ्कराः सुराः । सुराः समीहितं दद्युः, साधितास्तपसा भृशम् ॥ ५५॥ यतः-निन्नेन तोयं हरितेन गावः, शान्तेन बाला विनयेन सन्तः । अर्थेन चान्ये तपसा च देवाः, साध्या हि लोकाश्च हितप्रियेण ॥५६॥ भेदा धर्मस्य चत्वारः, प्रोक्ता ये श्रीजिनेश्वरैः। तन्मध्ये भावतः सेव्यं, तपो वाञ्छितसिद्धये ॥ ५७ ॥ Jain Education a l For Private & Personel Use Only Shjainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy