________________
॥१८॥
उपालम्भान ददौ साऽथ, दैवं प्रतीत्यनेकधा । कृतस्त्वयि विनाशः किं ?, येनाहं विफलीकृता॥ ३७॥ महा. सूनुशून्यं कथं दत्तं, राज्यं प्राज्यमिदं विधे ! । किञ्चिदुःखं हि जीवानामकृत्वा त्वं न तृप्यसि ॥३८॥ मया पूर्वभवे किं वा, साधूपकरणं हृतम् ? । पशुपक्षिनराणाञ्च, बालनाशः कृतः किमु ? ॥ ३९॥ आत्मानमिति निन्दन्ती, शोचन्ती निजकर्म च । मुञ्चन्ती चाश्रुधारां सा, विललाप घनं तदा॥४०॥ तस्मिन्नेव क्षणे राजा, गृहमध्ये समागतः । श्यामानना च शोचन्ती, दृष्टा प्राणप्रिया तदा ॥४१॥ राजाप्यथ धरन्दुःखं, स्माह पत्नी प्रति स्फुटम् । कथं रोदिषि हे देवि!, मम कष्टं महद्भवेत् ॥४२॥ राज्ञी प्रोचे शृणु स्वामिनिर्भाग्याऽहं हि निर्मिता। पूर्वपापप्रभावेण, कर्महीना कलङ्किता ॥ ४३ ॥ वृथा मे राज्यसौख्यानि, वृथा मे जन्म जीवितम् । यौवनं भोगसंयुक्तं, निष्फलं दिनदीपवत् ॥ ४४ ॥ इति श्रुत्वा नृपोऽवादीत्, खेदः किं शुभलोचने!। व्यक्तं ब्रूहि ममाग्रे त्वं, कारणं कमलानने ! ॥ ४५ ॥॥१८॥ तदा प्राणप्रिया प्रोचे, शृणु स्वामिन् ! यथातथम्। कष्टं मेऽस्त्यनपत्यत्वं, यन्मां व्यथति शल्यवत् ॥४६॥ ते हि नारीनरा धन्या, यदुत्सङ्गे स्तनन्धयाः। रुदन्ति च रमन्ते वा, जल्पन्त्यव्यक्तभाषणैः ॥४७॥
Jain Education
IMItional
For Private Personel Use Only
Silw.jainelibrary.org