SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ तया समं स हर्षेण, रममाणो महीपतिः । न जानाति वयो गच्छत्, वेत्त्यायान्ती च नो जराम् ॥२६॥ तथा च-आदौ चित्ते ततः काये, सतां सञ्जायते जरा । असतां तु पुनः काये, चित्ते नैव कदाचन ॥२७॥ पूर्वे वयसि यः शान्तः, स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु, शमः कस्य न जायते ? ॥२८॥ मोहेनैतन्न जानाति, स राजा कामलोलुपः । बुभोज विविधान् भोगान्, परं तस्य न सन्ततिः ॥२९॥ एकदा तस्य भूपस्य, पत्नी सा पुष्पमालिका । गवाक्षस्था निरैक्षिष्ट, सौधाधो वरवापिकाम् ॥३०॥ ददर्श तत्र हंसीञ्च, लालयन्तीं निजात शिशुन् । स्वेच्छया ददती चूर्णि, स्पृशन्तीं मूर्ध्नि बालकान ३१ तां प्रेक्ष्य हृदि सा दध्यौ, हा मे जन्म गतं वृथा । न सन्तानसुखं प्राप्तं, जङ्गमा विन्ध्यवल्यहम् ॥३२॥ सुतं विना न भाति स्त्री, यथा चन्द्रं विना निशा । सर्वत्र लभते मानं, विधवापि सुतान्विता ॥ ३३ ॥ २४ विधवापि तथा नारी, राजते पुत्रदीपिता । दीपोत्सवेन कलिता, अमावास्यापि सिद्धिदा ॥ ३४॥ गन्धहीनं यथा पुष्पं, तटाकमिव निर्जलम् । कलेवरमिवाजीवं, घिग् नारीजन्म निःसुतम् ॥ ३५॥ गाथा-जम्मु निरत्थउ तीए, जीए महिलाइ मम्मणुल्लावो । धूलीधूसरदेहो, पुत्तो नरमेइ उच्छङ्गे ॥३६॥ Join Educa For Private Personel Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy