________________
धर्म.
॥१८०॥
Jain Education
9
राज्ये सुनीतिः प्रणये प्रतीतिस्तथा हि धर्मे शुभभावना च ॥ १७ ॥ सुस्वादतायै लवणं रसानां यथाऽखिलानामपि दृष्टमिष्टम् । धर्मत्रयस्यापिं विशेषसिध्यै, तथैव भाव्यो भुवि भावधर्मः ॥ १८ ॥ धनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं, क्रियाकाण्डञ्चण्डं रचितमवनौ सुप्तमसकृत् । तपस्तीव्रं तप्तं चरणमपि चीर्ण चिरतरं न चेच्चित्ते भावस्तुषवपन वत्सर्व्वमफलम् ॥ १९ ॥ अज्ञानध्वान्तसन्धाने, ध्याने सिद्धिपुराध्वनि । अध्वगस्यात्मनो भाति, भावना रत्नदीपिका ॥ २० ॥ सद्दानशीलतपसां भवयुद्धाय धावताम् । अग्रेसरीभवत्येका, भावनैव महाभटैः ॥ २१ ॥ चन्द्रोदयनरेन्द्रस्य, भावोपरि कथां शृणु । यां श्रुत्वा जायते शुद्धं मानसं शारदेन्दुवत् ॥ २२ ॥ तथाहि जम्बूद्वीपेऽस्ति, क्षेत्रं भरतसंज्ञकम् । पुष्पभद्रपुरं तत्र, भद्रसन्ततिसंयुतम् ॥ २३ ॥ पुष्पचूलो नृपस्तत्राभवज्जातिसुपुष्पवत् । येनेदं सकलं विश्वं, यशोगन्धेन वासितम् ॥ २४ ॥ पुष्पमाला प्रिया तस्य, प्रेमाढ्याच प्रमोदिनी । सुभगा शुध्वशीला च, पतिचित्तानुवर्त्तिनी ॥ २५ ॥
ational
For Private & Personal Use Only
महा.
1122011
www.jainelibrary.org