SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ काले कालत्रयज्ञानं, महाकाले च कीर्तितः । स्वर्णरूप्यलोहमणिप्रवालानाञ्च सम्भवः ॥ ९ ॥ युद्धनीतिः समग्रापि, सर्वप्रहरणानि च । तनुत्राणादि योधानां, योग्यं माणवके भवेत् ॥ १० ॥ तूर्याङ्गाणि समस्तानि, वाद्यञ्चापि चतुर्विधम् । निधौ सञ्जायते संख्ये, नाट्यनाटकयोविधिः ॥ ११ ॥ तेषु पल्योपमायुष्का, वसन्ति खलु देवताः। निधानसमनामानः, समये परिकीर्तिताः ॥ १२ ॥ __ चतुर्दश रत्नानि नव निधानानि समाप्तानि ।। वैराग्यगुममञ्जरी कुचरितग्रन्थिच्छिदाकर्त्तरी, ज्ञानेन्दुद्युतिशर्वरी भवचयाम्भोजप्रभा धूमरी ।। श्रेयःपल्लववल्लरी शुभदिनारम्भध्वनेझल्लरी, चित्तान्तः प्रमुदित्वरी भवरुजां स्याद्भावना जित्वरी ॥१३॥ अथोचे श्रीसुधर्माह्वः, श्रीमद्वीर जिनं प्रति । भगवंस्त्वत्प्रसादेन, श्रुतं शाखात्रयं स्फुटम् ॥ १४ ॥ अदाने शीले च तपसि, धर्मकार्येऽपरेऽपि च । सहायो यो मतस्तस्य, भावस्य वद किं फलम् ?॥ १५ ॥ इति प्रश्ने कृते वीरो, घनगम्भीरया गिरा । प्रोचे शृणु सुधर्म ! त्वं, तुर्यशाखाफलं महत् ॥ १६ ॥ कृषौ सुवातः किल वृद्धिहेतुः, शिशौ स्वमाता सुकृते कृपा च। Jain Education For Private & Personel Use Only O w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy