SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ॥ १७९ ॥ महा. धम्र्मो मङ्गलमुत्तमं नरसुरश्रीभुक्तिमुक्तिप्रदो, धर्मः स्त्रियति बन्धुवद्दिशति च कल्पदुवद्वाञ्छितम् । धर्मः सद्गुणसङ्क्रमे गुरुरिव स्वामीव राज्यप्रदो, धर्मं पाति पितेव वत्सलतया मातेव पुष्णाति च १ यस्यैकत्र तटे नवापि निधयः कल्पद्रुमाः कोणके, स्वर्गक्षोणिरसातलेन्द्रपदवी श्रीश्च प्रदेशे कचित् । अंशे क्वापि वसन्ति दैवतवराः सार्द्धं महासिद्धिभिः, धर्म्म प्रौढनिधिं बुधाः कुरुत तं किं वः प्रयासैः परैः १२ यतः ग्रन्थान्तरे - चक्र १ चर्म्म २ छत्र ३ दण्डा ४ कृपाणः ५ काकिणिर्निधिः ६ । गजाश्वगृह ९ सेनानी १० पुरोधः ११ स्थपति १२ स्त्रियः १३ ॥ ३ ॥ द्वादशयोजनायामा नवयोजनविस्तृताः । मञ्जूषाकृतयः प्रादुर्वभूवुर्निधयो नव ॥ ४ ॥ नैसर्पः १ पाण्डुकश्चैवर, पिङ्गलः ३ सर्वरत्नकः ४ | महापद्मः ५ काल६ महाकालौ७ माणव८ संख्यकौ ||५|| स्कन्धावारपुरादीनां निवेशा: प्रथमे निधौ । सर्वेषां धान्यवीजानामुत्पत्तिश्च द्वितीयके ॥ ६ ॥ नराणां महिलानां च, गजानां वाजिनां तथा । आरोहणविधिः सर्वो, निधौ पिङ्गलके भवेत् ॥ ७ ॥ चतुर्द्दशापि रत्नान्युत्पद्यन्ते सर्वरत्नके । महापद्मे च वस्त्राणां, रङ्गादीनां च सम्भवः ॥ ८ ॥ 1 For Private & Personal Use Only Jain Education International ॥ १७९ ॥ www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy