________________
Jain Education Inter
कर्म्मारण्यदवानलोऽभिलषिते सत्कामधेनूपमं, दुष्टारिष्टविनाशकं गुणकरं सौभाग्यसंवर्द्धनम् । श्रीमन्मुक्तिनरामरेशपदवीसम्पादने प्रत्यलं, शान्तं कान्तमसङ्गतावरतपःशक्त्या जिनेन्द्रोदितम् ॥ २४ ॥ धन्याः केऽपि मनोभवैकभवने तारेऽपि तारुण्यके, त्यक्त्वा मित्रकलत्रमित्रविभवानुग्रं तपन्ते तपः । माङ्गल्यं त्रिदशाचितं गदहरं कर्म्मडुमाग्निस्तपो, भव्यैः सेव्यमनिन्दितं जितमदैर्मुक्त्यै हितार्थस्पृहैः ॥ २५ ॥
अहो भव्यजना ! एवं प्रोक्ता पुण्यद्रुमे मया । तृतीयैषा तपःशाखा, सेवनीया शुभङ्करी ॥ २६ ॥
इति श्री वीरदेशनायां श्रीधर्मकल्पद्रुमे चतुश्शाखिके तृतीयतपः शाखायां श्रीपुरुषोत्तमनृपाख्याने षष्ठः पल्लवः, तृतीया तपःशाखा च समाप्ता ॥ ६ ॥
For Private & Personal Use Only
inelibrary.org